Book Title: Gurugun Shattrinshtshatrinshika Kulak Part 03
Author(s): Ratnabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 301
________________ १०९२ चतुर्दश भूतग्रामाः (छाया- मिथ्यादृष्टिः सास्वादनश्च तथा सम्यग्मिथ्यादृष्टिश्च । अविरतसम्यग्दृष्टिः विरताविरतः प्रमत्तश्च ॥१॥ ततश्च अप्रमत्तः निवृत्त्यनिवृत्तिबादरौ सूक्ष्मः । उपशान्तक्षीणमोहौ भवति सयोगी अयोगी च ॥२॥) गाथाद्वयस्य व्याख्या - कश्चिद्भूतग्रामो मिथ्यादृष्टिः, तथा सास्वादनश्चान्यः, सहैव तत्त्वश्रद्धानरसास्वादनेन वर्तत इति सास्वादनः, क्वणद्घण्टालालान्यायेन प्रायः परित्यक्तसम्यक्त्वः, तदुत्तरकालं षडावलिकः, तथा चोक्तम् - "उवसमसंमत्तातो चयतो मिच्छं अपावमाणस्स । सासायणसंमत्तं तदंतरालंमि छावलियं ॥१॥' (छाया- उपशमसम्यक्त्वात् च्यवमानस्य मिथ्यात्वमप्राप्नुवतः । सास्वादनसम्यक्त्वं तदन्तराले षडावलिकाः ॥१॥) तथा सम्यग्मिथ्यादृष्टिश्च सम्यक्त्वं प्रतिपद्यमानः प्रायः सञ्जाततत्त्वरुचिरित्यर्थः, तथाऽविरतसम्यग्दृष्टि:-देशविरतिरहितः सम्यग्दृष्टिः, विरताविरत:-श्रावकग्रामः, प्रमत्तश्च प्रकरणात्प्रमत्तसंयतग्रामो गृह्यते, ततश्चा( प्रमत्तः-अ)प्रमत्तसंयतग्राम एव, 'णियट्टिअणियट्टिबायरो 'त्ति निवृत्तिबादरोऽनिवृत्तिबादरश्च, तत्र क्षपकश्रेण्यन्तर्गतो जीवग्रामः क्षीणदर्शनसप्तकः निवृत्तिबादरो भण्यते, तत ऊर्ध्वं लोभाणुवेदनं यावदनिवृत्तिबादरः, 'सुहमे 'त्ति लोभाणून् वेदयन् सूक्ष्मो भण्यते, सूक्ष्मसम्पराय इत्यर्थः, उपशान्तक्षीणमोह: श्रेणिपरिसमाप्तावन्तर्मुहूर्तं यावदुपशान्तवीतरागः क्षीणवीतरागश्च भवति, सयोगी भवस्थकेवलिग्राम इत्यर्थः, अयोगी च निरुद्धयोगः शैलेश्यां गतो हुस्वपञ्चाक्षरोगिरणमात्रकालं यावत् इति गाथाद्वयसमासार्थः ॥ व्यासार्थस्तु प्रज्ञापनादिभ्योऽवसेयः ।' इत्थं गुरोः षट्त्रिंशद्गुणा जिनेन्द्रैः कथिताः ॥६०८॥ 'चउक्कं' इत्यादि । गुरुश्चतुर्विधस्मारणादिकं करोति । तस्य स्वरूपं प्रज्ञप्तं प्रथमषट्विशिकावृत्तौ । गुरुश्चतुर्विधधर्ममुपदिशति । तस्य स्वरूपं व्याख्यातं प्रथमषट्त्रिशिकावृत्तौ । प्रत्येकं चतुर्भेदानां चतुर्विधानां ध्यानानां स्वरूपं गुरुर्जानाति प्ररूपयति च । तत् प्रदर्शितं प्रथमषट्त्रिशिकावृत्तौ । गुरुादशभावना भावयति उपदिशति च । तासां स्वरूपमुक्तं षोडशषट्विशिकावृत्तौ । इत्थं गुरोः षट्त्रिंशद्गुणाः

Loading...

Page Navigation
1 ... 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402