Book Title: Gilgit Manuscripts Vol 01
Author(s): Nalinaksha Dutt, D M Bhattacharya, Shivnath Sharma
Publisher: Government of Jammu

View full book text
Previous | Next

Page 251
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३२ अजितसेनव्याकरणम् अयमानन्द नन्दिमित्रमहाश्रावकस्तत्रैव कालसमये नन्दि. प्रभो नाम तथागतोऽर्हन् सम्यक्संबुद्धो लोके भविष्यति । आनन्द आह। कीदृशं भगवन् तेषां तथागतानां बुद्धक्षेत्र भविष्यति । भगवानाह। अपरिमितगुणसंचया नाम सा बुद्ध. क्षेत्र भविष्यति यनेमे तथागता भविष्यन्ति। आनन्द आह । य इमं धर्मपर्यायं सकलं समाप्तं पश्चिमे काले पश्चिमे समये संप्रकाशयिष्यति तस्य कीदृशः पुण्यस्कन्धो भविष्यति । भगवानाह। यदा मयानन्द दुष्करकोटिनियुतशतसहस्राणि चरित्वा बोधिरभिसंबुद्धा तदा ते सत्त्वा बोधिमभिसंभोतस्यन्ते । य एतद्धर्मपर्यायात् चतुष्पदिकामपि गाथां' श्रोष्यन्ति अवैवर्तिकाश्च ते सत्त्वा भविष्यन्त्यनुत्तरायां सम्यकसंबोधौ। आनन्द आह । य इमं धर्मपर्यायं धर्मभाणकाः संप्रकाशयिष्यन्ति तेषां कीदृशं कुशलमलं भविष्यति। भगवानाह। शृणु आनन्द राजा भविष्यति चक्रवर्ती चतुर्तीपेश्वरः । य इमं धमपर्यायं सकलं समाप्तं संप्रकाशयिष्यन्ति° मुक्ताश्च भविष्यन्ति जातिजराव्याधिपरिदेवदुःखदौर्मनस्योपायासेभ्यः परिमुक्ता भविष्यन्ति। आनन्द आह । ये पश्चिमे काले पश्चिमे समये सत्त्वा इमं धर्मपर्यायं प्रतिक्षेप्स्यन्ति' न पत्तीयिष्यन्ति तेषां का गतिर्भविष्यति कः परायणम् । 1 Ms. श्रावकतत्रैव 4_Ms. स्कन्धं 7 Ms. गाथा 10 Ms. क्षेपिष्यन्ति 2 Ms. संप्रकाशिष्यति 5 Ms. बोधिमभिसंबुद्धं 8 Ms. रानन्द 11 For प्रत्येष्यन्ति 3 Ms. कीदृशं 6 Ms. पर्याया 9 Ms. ०ष्यति 12 Ms. को For Private and Personal Use Only

Loading...

Page Navigation
1 ... 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266