Book Title: Gadya Chintamani
Author(s): Vadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
Publisher: Madras

View full book text
Previous | Next

Page 150
________________ दशमो लम्बः । १३९ अनन्तरमापाटलपटकुटीघटनायासक्लान्तस्वान्तेषु गृहचिन्तकेषु , विलुटितोत्थितविधूतकायहयपीयमानतोयेषु तोयाशयेषु , बहुप्रयासप्रापितालानस्तम्भेषु मदस्तम्बरमेषु, सद्यःपाकसंपादनोद्युक्तमानसेषु महानसमुपस्थितेषु पुरस्तादेव पौरोगवेषु , सत्वरसंकल्पितमापणमासेदुषि प्रथमतरपणायनत्वरणभाजि वणिजि, वामहस्तावलम्बितमस्तककुटोष्ठासु कूपसरिदन्वेषिणीषु कुट्टिनीषु , प्रसभं बहिः प्रधावत्येधानाहारके दासेरके , स्नातानुलिप्ताङ्गासु ध्रियमाणभूषासु वारयोषासु, व्यसनगौरवस्मारितपथकथाकथनलम्पटे दंपतिनिवहे , अहंपूर्विकोपसरदनेकविधयोधास्कन्दनकृताक्रोशे क्रोशशतान्तर्गतकुटुम्बिवर्गे, मार्गश्रमापनोदनमनीषानिहितदयिताङ्कशिरसि यवीयसि, विशङ्कटपीठप्रसारितप्रसवजालहेलानहनमनोहारिण्यां मालिकयुवतिश्रेण्याम् , श्रेणीभूतपादाताधिष्टितासु काष्ठासु, काष्ठाङ्गारेण सबहुमानमुपायनीकृतमनतिवयस्कममन्दबलमाश्वीयं हास्तिकमप्यास्थानकृतावस्थितिरयमद्राक्षीत् , प्राहैषीच्चास्य प्रतिप्राभृतम् । अनाडयच्च डिण्डिमम् 'अतिरुन्द्रचक्रयन्त्रनियन्त्रितं यो नाम युगपदेव पातयितुं शक्नोति शरेण शरव्यतां गतं वराहत्रयं वराहेऽस्मिन्नेव वरोऽयमस्मत्कुमार्याः स्यात्' इति । आयासिषुश्च चोलकेरलमालवमागधपाण्ड्यपारसीककलिङ्गकाश्मीरकाम्भोजप्रभृतिदेशाधिपा महीभृतः । पुनरवसरेऽस्मिन्नविप्रकृष्टमृतेः काष्ठाङ्गारस्य नापरो रोदितीति स्वयं रुददिव मन्यमानं दैन्यावहारसितमनिशमम्बरतले बम्भ्रमद्वायसमण्डलं खण्डितशिरोभागं तदीयशीर्षच्छेद्यतानियतिसूचननिबन्धं कबन्धमनन्तरज्वलिष्यददसीयशोकधूमध्वजपुरोगमधूमेनेव दिग्धूमेन धूम्रोपान्तं दिगन्तं नितान्तनिस्त्रिंशफलमन्यादृशमपि मन्युभरापादनं महोत्पातं निशाम्य निकृष्टाचारे काष्ठाङ्गारे किंचिन्न्यञ्चन्मनसि विषेण वा केनापि मिषेण वा वञ्चयितुं वाञ्छति गोविन्दराजम् , राजपुरीं निकषा निषेदुषां नरपतीनामुपकार्या

Loading...

Page Navigation
1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184