Book Title: Gacchachar Prakirnakam
Author(s): Yashratnavijay
Publisher: Jingun Aradhak Trust

View full book text
Previous | Next

Page 156
________________ open पूर्वमहर्षिप्रणीत-अवचूरिद्वयसमन्वितम् .. कंदर्पम् = विषयस्याभिलाषरूपम्, नाहियवायमिति नास्तिकवादम् / यत उक्तम् - "दोषद्यां तेण कयाई जिअसत्तु, अंतिए पालगत्ति पट्ठविओ / केणवि पयोयणेणं नाहिआवाइ उ दुट्ठो // 1 // " धावनं, डेवनं = उदयानम्, लंघनं, ममकरो = ममता ममीकारकरणं, अवर्णोच्चारणम् = अवर्णवादजल्पनं परापवादकथनं न क्रियते स गच्छः // 82 // (द्वि.अ.) - 'हासं०' इत्यादि, हास्यं, क्रीडां, कंदर्प, नाहियवादम् = नास्तिकवादम् / उक्तं च - "दोषद्यां तेण कयाई अ जिअसत्तू अंतिए पालगत्ति पट्ठविओ / केणवि पयोयणेणं नाहियवादी उ दुट्ठो // " इति वचनात् / धावनं, डेवनम् = उदयानं, लंघनं, ममकारो = ममताकरणम्, अवर्णोच्चारणम् = अवर्णवादकथनम् // 82 // जत्थित्थीकरफरिसं, अंतरिअं कारणेऽवि उप्पन्ने | दिट्ठीविस-दित्तग्गी-विसं व वज्जिज्जए गच्छे ||83 / / यत्र स्त्रीकरस्पर्शमन्तरितं कारणेऽपि उत्पन्ने दृष्टिविष-दीप्ताग्नि-विषमिव वर्जयेत् गच्छे / / 83 // (प्र.अ.) - 'जत्थि०' इत्यादि, यत्र = गच्छे 'इत्थी'ति स्त्रीकरस्पर्शनम् अंतरितं निरंतरितं वा कारणे उत्पन्ने दृष्टिविषदीप्ताग्निहालाहलविषवद् वय॑ते स गच्छः // 83 // (द्वि.अ.) - 'जत्थि०' इत्यादि, दृष्टिविषदीप्ताग्निमिवांतरे कारणे उत्पन्नेऽपि यत्र स्त्रीकरस्पर्श वर्जयेत् स गच्छः // 83 / / बालाए वुड्डाए, नत्तुअ दुहिआइ अहव भइणीए / न य कीरइ तणुफरिसं, गोयम ! गच्छं तयं भणियं ||84|| बालाया वृद्धाया नप्तृकाया दुहिताया अथवा भगिन्याः / न च क्रियते तनुस्पर्शः, गौतम ! गच्छः स भणितः // 84 / / (प्र.अ.) - 'बाला०' इत्यादि, यत्र बालायाः = पञ्चवर्षादारभ्य नववर्षं यावद् बालेत्युच्यते / वृद्धायाः = षष्टिसप्ततिवर्षायाः / नप्तकायाः दुहितकायाश्च भगिन्या वा सहोदराया वा तनुस्पर्शो = देहस्पर्शो न क्रियते स गच्छः हे गौतम ! // 84 //

Loading...

Page Navigation
1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182