Book Title: Dwisandhanam
Author(s): Dhananjay, Kashinath Pandurang Sharma,
Publisher: Nirnanysagar Press

View full book text
Previous | Next

Page 177
________________ १६ सर्गः] द्विसंधानम् । -- १७३ गुणेन मुक्तं गुरुपर्वरिक्तं मुखेन तीक्ष्णं प्रतिपक्षबद्धम् । मर्माविदेषामिषुजालमायादपारिषद्यस्य तुलां जनस्य ॥ १२ ॥ गुणेनेति ॥ गुणेन मौा, शास्त्राभ्यासादिना । गुरुपर्वरिक्तं गरिष्ठपरकेण (प्रन्थिना) सूरिपरम्परया च हीनम् । तीक्ष्णं परुषश्च । प्रतिपक्षबद्धं पश्चापिच्छबद्धं प्रत्यार्थमिलि. तश्च । मर्माविद् मर्माणि विध्यति तत् स वा । एषां नरेन्द्राणामिषुजालमपारिषद्यस्य हेयोपादेयविवेकविकलस्य जनस्य तुलामायात् ॥ तान्प्रावृषेण्याम्बुदभासि पांशो मध्ये दृशं रुन्धति शब्दलक्ष्यः । शरोऽभिनत्पूगतिथानरातीको वा निषेद्धा भवितव्यतायाः ॥ १३ ॥ . तानिति ॥ प्रावृषेण्याम्बुदभासि प्रावृड्भवघनतुल्ये पांशो मध्ये दृशं रुन्धति आवृ. ण्वति सति शब्दलक्ष्यः शब्दवेध्यः, शरः, पूगतिथान् संघपूरणान् तान् अरातीन् अभिनत् । भवितव्यतायाः को निषेद्धा ॥ तथाविधेऽप्युद्यति धूलिजाले नृपा रिपून्प्रापुरमी यथास्वम् । - सर्वस्य पूर्वानुभवोऽनुबन्धी को विष्वणन्मुह्यति नक्तमास्ये ॥ ५४ ॥ तथेति ॥ अमी नृपाः तथाविधे धूलिजाले उद्यति अपि यथास्वं यथायोग्यं रिपून् प्रापुः । पूर्वानुभवः सर्वस्य अनुबन्धी भवति । यतः, नक्तं रात्रौ आस्ये मुखे विष्वणन् भुञ्जानः को मुह्यति । न कोऽपि ॥ तथोभयेषामपि भूपतीनां चित्तात्प्रकोपश्चिरकालरूढः । परस्परं भार इवावतीर्णो जज्ञे लघुर्विश्रमदित्सयेव ॥ ५५ ॥ तथोभेति ॥ तथा उभयेषामपि भूपतीनां चित्तात् परस्परं विश्रमदित्सया इव अव. तीर्णः चिरकालप्ररूढोऽपि प्रकोपः । भार इव । लघुर्जज्ञे जातः ।। ऋजुस्वभावादवदातवृत्ताः खनाथनाम्नाभिययुः कृताङ्काः। तूर्ण मृधोद्यावनिमन्त्रणाय दूता इवान्योन्यचमूं पृषत्काः ॥ १६ ॥ ऋज्विति ॥ ऋजुस्वभावात् अवक्रस्वरूपात्, अवदातवृत्ताः खण्डितवृत्तयः शुद्धवृ. त्तयः, स्वनाथनाना कृताङ्काः विहितचिह्नाः पृषत्का बाणाः (दूता इव) मृधोद्यावनिमन्त्रणाय रणोद्यमनिमन्त्रणाय रणोत्सवनिमन्त्रणाय वा अन्योन्यचमू परस्परसेनां तूर्णं यथा स्यात्तथा अभिययुः ॥ छत्रध्वजानामितरेतरस्य दण्डास्तदावादिषतार्धचन्द्रैः । नवप्रियत्वोद्धभियेव भूपैर्न तत्यजेऽन्योन्यकृतं वधेऽपि ॥ १७ ॥ छत्रेति ॥ तदा अर्धचन्द्ररितरेतरस्य छत्रध्वजानां दण्डा अवादिषत छिन्नाः । भूपैः

Loading...

Page Navigation
1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230