Book Title: Durgapushpanjali
Author(s): Jinvijay, Gangadhar Dvivedi
Publisher: Rajasthan Puratattvanveshan Mandir

View full book text
Previous | Next

Page 160
________________ दुर्गा-पुष्पाञ्जलिः उत्फुल्लामलपुण्डरीकपटलीसौन्दर्य सर्वकषा मातस्तावकवारिपूरसरणिः स्नानाय मे जायताम् ॥२॥ प्रश्रान्तं तर संनिधौ निवसतः कूलेषु विश्राम्यतः पानीयं पित्रतः क्रियां कलयतस्तत्त्वं परं ध्यायतः । उद्यत्प्रेमतरङ्गभंगुरदृशा वीचिच्छटां पश्यतो दीनत्राणपरे ! ममेदमयतां वासिष्ठि ! शिष्ट व्यः॥३॥ विद्योतते यदुपकण्ठमुदारधानि ___नागेश्वरः स भगवान् दयमानमूर्तिः । यो गल्लनाद-सरयू-जल-विल्वपत्रै रभ्यर्च्यते जनतया नतया समन्तात् ।।' शिरसि मूर्ध्नि अवतंसितस्य विभूषितस्य शशिनः ज्योत्स्नाछटा चन्द्रिकाप्रवाहः । संचिता राशीभूता । किं वा व्याधीनां पञ्चभूतशरीरात्प्रभवन्तीनां शमाय दलनाय । पीयूषस्य धारा सुधारसप्रवाहः । भूमिवलयं वसुधामण्डलं आगता संप्राप्ता । उत्फुल्ला विकसिता, अमला मनोहारिणी च या पुण्डरीकस्य सिताम्भोजस्य, पटली समवायः, तस्याश्च यत् सौन्दर्य लावण्यं, तं सर्व कषति सर्वातिरेकमानयति इति तथाभूता । हे मातः ! जननि ! तावकं भवत्याः यत् वारिपूरं अपां राशिः तस्य च या सरणिः प्रचाह सा । मे स्नानाय अन्न_ह्यमलोत्साहनपुरस्सरं अवगाहनाय जायताम् संपद्यताम् । ३-हे वासिष्टि ! वसिष्ठस्य इयं वासिष्ठी तत्संबुद्धिः । वसिष्ठतनयात्वेन भूवलयमवतीर्णे । दीनानां दुर्वलात्मनां त्राणपरे रक्षणोद्यते । अश्रान्तं निरन्तरं यथा स्यात् तथेति क्रियाविशेषणम् । तव सन्निधौ भवत्या. समीपे, निवसतः निवासं कुवेतः । कूलेषु उभयतीरेपु विश्राम्यतः सुलभं निद्रासुखमम्चतः । पानीयं सलिल पिबत' आस्वादयत । क्रियां सन्ध्योपासनादिदेवपूजान्त व्यापार, कलयतः अनुतिष्ठतः । परं तत्त्वं नामविकारवज प्रत्यगात्मस्वरूपं ब्रह्मपदाभिधेयम् । ध्यायतः अन्तर्भावयतः । उद्यत्प्रेमतरङ्गभंगुरदशा उद्यन्तः उदयं गच्छन्तः प्रेमाणे एव तरङ्गा, तैः भंगुरा वक्रा या हक् द्रष्टिः, अपाङ्गप्रेक्षितं वा तया । वीचीनां इतस्ततो लुठन्तीनां ऊर्मीणा छटा सौन्दर्य तां पश्यत. अवलोकयत. । मम स्तुतिकतु, इदं शिष्टं अवशिष्टं वय. आयुष्यं अयताम् समाप्तिमापद्यताम् ।

Loading...

Page Navigation
1 ... 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201