Book Title: Dhvanyaloak
Author(s): Anandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
Publisher: Pandurang Jawaji

View full book text
Previous | Next

Page 210
________________ ३ उयोतः] ध्वन्यालोकः। २०१ व्यापारनिबन्धाश्च विदग्धपरिषत्सु विविधा विभाव्यन्ते । तामुपहास्यतामास्मनः परिहरन्कथमभिसंदधीत सचेताः (ब्रूयात्) अस्त्यभिसंधानावसरे व्यञ्जकत्वं शब्दानां गमकत्वं तच्च लिङ्गत्वमतश्च व्यङ्ग्यप्रतीतिर्लिङ्गिप्रतीतिरेवेति लिङ्गलिङ्गिभाव एव तेषां व्यङ्ग्यव्यञ्जकभावो नापरः कश्चित् । अतश्चैतदवश्यमेव बोद्धव्यम् । यस्माद्वऋभिप्रायापेक्षया व्यञ्जकत्वमिदानीमेव त्वया प्रतिपादितम् । वऋभिप्रायश्चानुमेयरूप एव । नन्वेवमपि यदि नाम स्यात्तत्किं नश्छिन्नम् । वाचकत्वगुणवृत्तिव्यतिरिक्तो व्यञ्जकलक्षणः शब्दव्यापारोऽस्तीत्यस्माभिरभ्युपगतम् । तस्य चैवमपि न काचित्क्षतिः । तद्धि व्यञ्जकत्वं लिङ्गत्वमस्तु अन्यद्वा सर्वथा प्रसिद्धशाब्दप्रकारविलक्षणत्वं शब्दव्यापारविषयत्वं च तस्यास्तीति नास्त्येवावयोर्विवादः । न पुनरयं परमार्थो यव्यञ्जकत्वं लिङ्गत्वमेव सर्वत्र व्यङ्ग्यप्रतीतिश्च लिङ्गिप्रतीतिरेवेति । यदपि स्वपक्षसिद्धयेऽस्मदुक्तमनूदितं त्वया वऋभिप्रायस्य व्यङ्गय. त्वेनाभ्युपगमात्तत्प्रकाशने शब्दानां लिङ्गत्वमेवेति तदेतद्यथास्माभिरभिहितं तद्विभज्य प्रतिपाद्यते श्रूयताम्-द्विविधो विषयः शब्दानाम्-अनुमेयः न्दरीभवतीत्यनेन ध्वन्यमानतायामसाधारणप्रतीतिलाभः प्रयोजनमुक्तम् । निबद्धाः प्रसिद्धाः । तानिति व्यवहारान् कः सचेता अभिसंदधीत । नाद्रियेतेत्यर्थः । लक्षणे शत्रादेशः । आत्मनः कर्मभूतस्य योपहसनीयता तस्याः परिहारेणोपलक्षितास्ताः परीजिहीर्षुरित्यर्थः । अस्तीति । व्यञ्जकत्वं नापहृते तत्त्वव्यतिरिक्तं न भवति । अपि तु लिङ्गलिङ्गिभाव एवायम् । इदानीमेवेति । जैमिनीयमतोपक्षेपे । यदि नाम स्यादिति । प्रौढवादितयाभ्युपगमेऽपि स्वपक्षस्तावन्न सिध्यतीति दर्शयति-शब्देति । शब्दस्य व्यापारः संधिविषयः शब्दव्यापारविषयः । अन्ये तु शब्दस्य यो व्यापारस्तस्य विषयो विशेष इत्याहुः । न पुनरिति । प्रदीपालोकादौ लिङ्गलिङ्गिभावे शून्योऽपि..... व्यङ्ग्यव्यञ्जकभावोऽस्तीति व्यङ्ग्यव्यञ्जकभावस्य लिङ्गलीङ्गिभावो व्यापक इति कथं तादात्म्यम् । विषय इति । शब्द उच्चरिते यावति प्रतिपत्तिस्तावान्विषय इत्युक्तः । तत्र शब्दप्रयुयुक्षा अर्थप्रतिपिपादयिषा चेत्युभय्यपि विवक्षानुमेया तावत् । यस्तु प्रतिपिपाद १. 'इति संदधीत' ग. २. 'अतिसंधान' ग. ३. 'भाविनः परः' क-ख. ४. 'अ. त्रोच्यते । नन्वेवमपि' ग. ५. 'व्यञ्जकल' ख. १. 'प्रयुक्तप्रतिपिपाद' ग.

Loading...

Page Navigation
1 ... 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258