Book Title: Dharmopadesh Karnika
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Scanned by CamScanner
धर्मोपदेश * इतस्तत्र श्रीगौतमो गणधरो गोचयाँ भ्रमन् समायातः. तं दृष्ट्वा सोऽतिमुक्तकुमारोऽवादीत्, के यूयं ? किमर्थं | कर्णिका ॥५१॥
चाटथ? तदा गोतमेनोक्तं श्रमणा वयं, भिक्षार्थं च पर्यटामः. अतिमुक्तकेन प्रोक्तं, तर्हि हे भगवन् ! आगजे च्छत यूयं मदीयगृहे, अहं भवद्भ्यो भिक्षां दापयामि. इत्युक्त्वा स बालोऽतिमुक्तकुमारस्तं श्रीगौतम* स्वामिनं निजांगुल्यां धृत्वा स्वगृहमध्ये समानयत्, गणधरेंद्रं दृष्ट्वा सा श्रीदेव्यप्यत्यंतं हृष्टा सती नमस्कृत्य | च शुद्धान्नैः प्रतिलाभयामास. तदा पुनस्तेनातिमुक्तकुमारेण गौतमस्वामिनंप्रति पृष्टं, हे भगवन् ! यूयं क्व च
वसथ? गणधरेंद्र उवाच, भद्र ! मम धर्माचार्याः श्रीवर्धमानस्वामिनो नगराइहिरुद्याने वसंति, तैः सार्धं | नवयमपि तत्रैव वसामः. तदा तेन बालेनोक्तं, तर्हि हे भदंत ! किमागच्छाम्यहमपि तत्र भवद्भिः सार्धं श्रीम* हावीरस्य पादानभिवंदितुं ? गौतमोऽवादीत्, भो देवानुप्रिय! यथासुखं. ततः सोऽतिमुक्तकुमारो गौतम-13 स्वामिना सह तत्रागत्य श्रीवर्धमानस्वामिनं वंदतेस्म. प्रभुणापि तस्मै वैराग्योपेतो धर्मोपदेशो दत्तः. तत,
श्रुत्वा प्रतिबुद्धोऽसौ गृहमागत्य निजपितरावब्रवीत. यथा. संसारानिर्विण्णोऽहं प्रवज्यामादास्ये, : || मामनुजानीत? तावूचतुभों वत्स! बालस्त्वं धर्मतत्वं किं जानासि? तदाऽतिमुक्तकेनोक्तं, भो अंब! भो ।

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81