Book Title: Dharm Sangraha Part 04
Author(s): Pravin K Mota
Publisher: Gitarth Ganga

View full book text
Previous | Next

Page 129
________________ ૧૧૨ ધર્મસંગ્રહ ભાગ-૪ / દ્વિતીય અધિકાર | શ્લોક-૧ _[अत्र च सवाचारवृत्त्युक्तोऽयं विशेषः-‘एको द्वौ यावदुत्कर्षतोऽष्टोत्तरं शतं यथाशक्ति भणित्वा पश्चाद्यथाविधि प्रागुक्तस्वरूपं प्रणिपातं कुर्यात्, तथा चागमः“पयत्तेण धूवं दाऊण जिणवराणं, अट्ठसयसुद्धगंथजुत्तेहिं अपुणरुत्तेहिं संथुणई" इत्यादि । प्रायः पुरुषाश्रितमिदं संभाव्यते, सूर्याभविजयदेवादिविहितत्वेन द्वितीयतृतीयोपाङ्गादावेवंभणितेर्दर्शनात् द्रौपद्यादिप्रस्तावे त्वेतनमस्कारप्रधानालापकपरिहारेण षष्ठाङ्गादावतिदेशभणनाच्च तथा च तत्राक्षराणि 'तएणं सा दोवई रायवरकन्ना' इत्यादि ‘जाव मज्जणघराओ पडिणिक्खमित्ता जेणेव जिणायतणे तेणेव उवागच्छइ, जाव जिणपडिमाणं आलोए पणामं करेइ' इत्यादि ‘जहा सूरि आभे वाम जाणुं अंचेइ' इत्यादि । एवं शिरोन्यस्ताञ्जलिना शक्रस्तवपाठोऽपि तासां विमWः, तथाभणने हृदादिदर्शनप्रसक्तेः, केवलमञ्जलिभ्रमणमात्रादि न्युञ्छनादिविधानवद् भक्त्यर्थं भवतु नाम, उक्तं च'विणओणयाए गायलट्ठीए, चक्खुप्फासे अंजलिप्पग्गहेणं' एवमेव नाममात्रादिना प्रणिधानाद्यपि ज्ञेयं, सर्वत्र विषमासनादित्वं वळमित्यैदम्पर्यमस्य एतदर्थिना दशाश्रुतस्कन्धचूाद्यवलोक्यमित्यलं विस्तरेण तत्र च प्रणिपातदण्डके] तत्र त्रयस्त्रिंशदालापकाः, आलापकद्विकादिप्रमाणाश्च विश्रामभूमिरूपा नव सम्पदो भवन्ति । यदाह“दो तिअ चउर ति पंचा दोन्नि अ चउरो अ हुंति तिन्नेव । सक्कथये नव संपय, तित्तीसं हुंति आलावा ।।१।।" एताश्च यथास्थानं नामतः प्रमाणतश्च व्याख्यास्यन्ते । अथ सूत्रव्याख्या-'नमोऽत्थु णं अरिहंताणं भगवंताणं', तत्र नम इति नैपातिकं पदं पूजार्थं, पूजा च द्रव्यभावसङ्कोचः तत्र करशिरःपादादिद्रव्यसंन्यासो द्रव्यसङ्कोचः, भावसङ्कोचस्तु विशुद्धस्य मनसो नियोगः, अस्त्विति भवतु, प्रार्थना चैषा धर्मबीजम्, आशयविशुद्धिजनकत्वात्, णमिति वाक्यालङ्कारे, अतिशयपूजामर्हन्तीत्यर्हन्तः, यदाहुः“अरिहंति वंदणनमंसणाइ अरिहंति पूअसक्कारं । सिद्धिगमणं च अरिहा, अरिहंता तेण वुच्चंति ।।१।।" [आ. नि. ९२१] तथा अरिहननादर्हन्तः, अरयश्च मोहादयः साम्परायिककर्मबन्धहेतवः, तेषामरीणामनेकभवगहनव्यसनप्रापणकारणानां हननादर्हन्तः, तथा रजोहननादर्हन्तः, रजश्च घातिकर्मचतुष्टयम्, येनावृतस्यात्मनः सत्यपि ज्ञानादिगुणस्वभावत्वे घनसमूहस्थगितगभस्तिमण्डलस्य विवस्वत इव तद्गुणानामभिव्यक्तिर्न भवति, तस्य हननादर्हन्तः, तथा रहस्याभावादहन्तः तथाहि-भगवतां निरस्तनिरवशेषज्ञानावरणादिकर्मपारतन्त्र्याणां केवलमप्रतिहतमनन्तमद्भुतं ज्ञानं दर्शनं चास्ति, ताभ्यां जगदनवरतं

Loading...

Page Navigation
1 ... 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218