Book Title: Devdravya ane Chaityadravya
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
૫૯
समीवि आयारे। उभयजढो भोगजढे कज्जे आउट्ट पुच्छणया ॥ २४२९ ॥ चैत्यविनाश-तद्रव्य-विनाशादि विषयं किमपि कार्य राजाधीनं, ततो राज्ञ आवर्जनार्थ दकसमीपे आतापयेत् तञ्च दकतीरं राज्ञोऽवलोकनपथे निर्गमनपथे वा भवेत् तत्र चातापयन् ससहायो, नैकाकी, उभयदृढो धृत्या संहननेन च बलवान्, भोगजāत्ति ग्रामेयकारण्यकानां तिर्यङमनुष्याणामवतारणमार्ग मनुजानां च स्नानादि भोगस्थानं वर्जयित्वाऽपरिभोग्ये प्रदेशे आतापयति, ततः स राजा तं महातपोयुक्तं आतापयन्तं दृष्टवा आवृत्तः सन् कार्यं पृच्छेत् भगवन् ! किमेवमातापयसि आज्ञापय करोम्यहं युष्मदभिप्रेतं कार्यं भोगान वा भगवतां प्रयच्छामि, मुनिराह महाराज ! न मम

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80