Book Title: Dashvaikalikam
Author(s): Kanchanvijay, Kshemankarsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
सुमति
उपदेशः
गा.५०९
साधु श्रीदशवै० चू०२
॥२१५॥
वाचनाद्यपचारव्यापार आचाम्लादौ प्रयतोऽतिशययत्नवान्भवेत्तथैव तस्य सफलत्वात् , विपर्यये उन्मादादिदोषप्रसङ्गादिति ॥५०६॥ किंच-न पडिपणवेज्जत्ति, न प्रतिज्ञापयेन्मासादिकल्पपरिसमाप्तौ गच्छन् भूयोऽप्यागतस्य ममैवैतानि दातव्यानीति न प्रतिज्ञा कारयेद् गृहस्थं, किमाश्रित्येत्याह-शयनासने शय्यां निषद्यां तथा भक्तपानमिति, तत्र शयनंसंस्तारकादि, आसनं-पीठकादि, शय्या-वसतिः, निषद्या-स्वाध्यायादिभूमिः, तथा-तेन प्रकारेण तत्कालावस्थानोचितेन भक्तपानं-खण्डखाद्यकद्राक्षापानकादिन प्रतिज्ञापयेत् ,ममत्वदोपात , सर्वत्र एतनिषेधमाह-ग्रामे-शालिग्रामादौ, कुले वाश्रावककुलादौ, नगरे-साकेतादौ, देशे वा-मध्यदेशादौ ममत्वभावं ममेदमिति, स्नेहमोहं न कचिदुपकरणादिष्वपि कुर्यात् तन्मलत्वाद दःखादीनामिति ।।५०७॥ उपदेशाधिकार एवाह-गिहिणोत्ति, गृहिणो-गृहस्थस्यं वैयावृत्त्यं-गृहिभावोपकाराय तत्कर्मस्वात्मनो व्यावृत्तभावं न कुर्यात् , स्वपरोभयाश्रेयासमायोजनदोपात् , तथाऽभिवादन-वाङ्नमस्काररूपं, वन्दनं-कायप्रणामलक्षणं, पूजनं च-वस्त्रादिभिः समभ्यर्चनं वा, गृहिणो न कुर्यादुक्तदोषप्रसङ्गादेव, तथैतद्दोषपरिहारायैव असंक्लिष्टैः-गृहिवैयावृत्त्यादिकरण संक्लेशरहितः साधुभिः समं वसेन्मुनिश्चारित्रस्य-मूलगुणादिलक्षणस्य यतो-येभ्यः साधुभ्यः सकाशान हानिः, संवासतस्तदकृत्यानुमोदनादिनेत्यनागतविषयं चेदं पूत्रं, प्रणयनकाले संक्लिष्टसाध्वभावादिति ॥५०८॥
ण या लभेजा निउणं सहायं, गुणाहिअं वा गुणओ समं वा। इक्कोऽवि पावाई विवजयंतो, विहरिज कामेसु असज्जमाणो ॥ ५०९ ॥
॥२१५॥
Jain Education Internationa
For Private & Personel Use Only
www.jainelibrary.org

Page Navigation
1 ... 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276