Book Title: Darbarilal Kothiya Abhinandan Granth
Author(s): Jyoti Prasad Jain
Publisher: Darbarilal Kothiya Abhinandan Granth Prakashan Samiti
View full book text
________________
क्षुल्लकभाषासमन्विततिर्यग्देवमनुष्यभाषाकारन्यूनाधिकभावातीतमधुरमनोहरगम्भीरविशदवागतिशयसम्पन्न: शतेन्द्रप्राप्तपूजातिशयो महावीरोऽर्थकर्ता । क्षेत्रतोऽर्थकर्ता पञ्चशैलपुरे (राजगृहनगरसमीपे) रम्ये पर्वतोत्तमे विपुलाचले भव्यलोकानां हितार्थ महावीरेणार्थः कथितः । इत्थं स एव विपुलाचलस्थो भव्यजीवानामर्थोपदेशको महावीरः क्षेत्रका विज्ञेयः । कालतोऽर्थकर्ताऽभिधीयते
इम्मिस्से वसप्पिणोए चउत्थ-सममस्स पच्छिमे भाए। चोतीस-वास-सेसे किंचि वि सेसूणए संते ॥ वासस्स पढममासे पक्खम्मि सावणे बहुले।
पाडिवद-पुव्व-दिवसे तित्थुप्पत्ती दु अभिजम्मि । आभ्यां गाथाम्यामिदमुक्तम्-अस्यामवसर्पिण्यां चतुर्थकालस्य दुःषमासुषमानामकस्यान्तिमे भागे किञ्चिन्न्यूनचतुस्त्रिशद्वर्षावशेष वर्षस्य प्रथममासे श्रावणेऽसितपक्षे प्रतिपद्दिवसे पूर्वाल्लेऽभिजिन्नक्षन्ने धर्मतीर्थोत्पत्तिः (वीरशासनोत्पत्तिः) जाता। तात्पर्य मिदं यच्छ्रावणकृष्णप्रतिपदिवसे भगवता तीर्थकरेण महावीरेण स्वदिव्यध्वनिना भव्यलोकस्य हितमुपदिष्टमिति । अतएव श्रावणकृष्णप्रतिपहिवसः समग्रजैनसंसारे 'वीरशासन-जयन्ति' इति नाम्ना पर्व प्रख्यातिमवाप। वीरजयन्तिवद्वीरशासनजयन्त्यपि सम्प्रति क्वचित्क्वचित समायुज्यते जैनैः । इदानी भावतोऽर्थकर्ता निरूप्यते-कर्मचतुष्टयमुक्तोऽनन्तचतुष्टयसम्पन्नो नवकेवललब्धिसंयुतो महावीरो भावश्रुतमुपदिशतीति भावतोऽर्थकर्ता समभिधीयते । तेन महावीरेण केवलज्ञानिना कथितार्थस्तस्मिन्नेव काले तत्रैव क्षेत्रे क्षायोपशमिकमत्यादिज्ञानचतुष्टयसम्पन्नेन जीवाजीवविषयसन्देहविनाशनार्थमुपगतवर्द्धमान-पादमूलेन गौतमेन्द्रभूतिनाऽवधारितः । इत्थं श्रुतपर्यायेण परिणतो गौतमो द्रव्यश्रुतस्य कर्ता । तस्माद् गौतमाद् ग्रन्थरचना जाता इति । तेन गौतमेन द्विविधमपि श्रुतं लोहार्यस्य संचारितम् । तेनापि जम्बूस्वामिनः । एवं परिनाटीक्रमेण एते त्रयोऽपि महाभागाः सकलश्रुतधारका भणिताः । परिपाटीक्रममनवेक्ष्य च संख्यातसहस्राः सकलश्रुतधारका वभूबुः । गौतमदेवो लोहार्यो जम्बूस्वामी चैते त्रयोऽपि सप्तविधलब्धिसम्पन्नाः सकलश्रुतपारंगता भूत्वा केवज्ञज्ञानमवाप्य निर्वृति (मुक्ति) प्रापुः । ततो विष्णुनन्दिमित्रादयः पञ्चापि चतुर्दशपूर्वधारका जाताः । तदनन्तरं विशाखाचार्यादय एकादशाचार्या एकादशानामङ्गानामुत्पादपूर्वादिदशपूर्वाणां च पारंगताः संजाताः । शेषोपरिमचतुर्णा पूर्वाणामेकदेशधराश्च । ततो नक्षत्राचार्यादयः पञ्चाचार्या एकादशानामङ्गानां पारंगताश्चतुर्दशानां च पूर्वाणामेकदेशज्ञातारः सम्भूताः। ततः सुभद्रादयश्चात्वार आचार्याः सामस्त्येनाचाराङ्गधारकाः शेषाङ्गपूर्वाणामेकदेशधारकाः समभवन् । एतेषां सर्वेषां काल: ६८३ वर्षपरिमितः । वीरनिर्वाणात् ६८३ वर्षाणि यावदङ्गश्रुतज्ञानमवस्थितम् ।
ततः सर्वेषामङ्गानां निखिलपूर्वाणां चैकदेशः श्रुतबोध आचार्यपरम्परया धरसेनाचार्य सम्प्राप्त इति । तेन धरसेनाचार्येण श्रुतवत्सलेनाष्टाङ्गमहानिमित्तपारतेन ग्रन्थविच्छेदो भविष्यतीति जातश्रुतविच्छेदभयेन महिमानगर्यां समायोजिते विशिष्टधर्मोत्सवे सम्मिलितानां दक्षिणापथाचार्याणां समीपे एको लेखः (पत्रात्मकः) प्रेषितः । तल्लेखात् धरसेनाचार्यस्य श्रुतरक्षणाभिप्रायं विज्ञाय तैराचार्यविद्याग्रहण-धारणसमर्थों धवलामलबहुविधविनयविभूषिताङ्गौ सुशीलौ देश-कुल-जातिशुद्धौ सकलकलापारंगतौ द्वौ साधू धरसेनाचार्यसमीपे सौराष्ट्रदेशस्थे गिरिनगरे प्रेषितौ । निशायाः पश्चिमे प्रहरे धरसेनाचार्येणातिविनयसम्पन्नौ धवलवर्णी शुभौ द्वौ वृषभौ स्वप्ने दृष्टौ । एवंविधं सुस्वप्नं दृष्ट्वा प्रसन्नेन चेतसा धरसेनाचार्येण 'जयउ सुयदेवदा'-जयतु श्रुतदेवतेति संलपितम् । तस्मिन्नेव दिवसे प्रातः तौ द्वावपि साधू समागतौ । ताभ्यां धरसेनाचार्यस्य पूर्णतया विनयाचारो विहितः । तथापि तयोः परीक्षणार्थ सुपरीक्षा हि हृदयसन्तोषकरेति सञ्चिन्त्य हीनाधिकवर्णयुक्ते द्वे विद्ये साधयितुं प्रदत्ते । तो प्रत्युक्तं चैते विद्ये षष्ठोपवासेन साधनीये । तदनन्तरं तयोर्दै विकृताङ्गे विद्यादेवते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560