Book Title: Chellana Mahasati Charitram
Author(s): Shubhshil Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 7
________________ चेल्लणा चरित्रं प्राह, भो दासि ! विलोकनार्थ तच्चित्रपट द्रुतं तस्य वणिजः पार्थात्त्वं समानय ? एवं तयादिष्टां सां दा2. स्यपि द्रुतमभयकुमारपावे समागत्य निजस्वामिन्या विलोकनार्थ तं चित्रपटं मार्गयामास. निजप्रयत्न2. स्य भाविसाफल्यं मन्यमानोऽभयकुमारोऽपि तस्यै तं चित्रपट्टमर्पयामास: अथ दास्यानीतं तं चित्रपट विलोक्य प्रेमकपरायणा सुज्येष्टा व्यन्तियत्। नूनमय श्रेणिको नृपो विधात्रा कस्मिंश्विन्निवृतिदिने एवं घटितः संभाव्यते. एवंविधं रूपलावण्यादिगुणगुणोपेतं स्वरूपं मया कस्यापि पुरुषस्य विलोकितं नास्ति. अथाहं कैनाप्युपायेनैनमेव श्रेणिकभूपं परिणेष्यामि. इति ध्यात्वा तया तस्यै दास्यै प्रोक्तं, भो दासि! त्वयि मम संपूर्णो विश्वासो वर्तते, अतस्त्वया मदीयोऽभिलाषः कस्याप्यन्यस्याये न वक्तव्यः, अथक त्वमेनं चित्रपटं तस्मै वणिजे पश्चात्समर्प्य कथयस्व ? यथा मम स्वामिनी सुज्येष्टा श्रेणिकभूपं परिणेतुमिच्छति. अतस्त्वं केनाप्युपायेन तस्या मनोरथं सफलीकुरु ? एवं सुज्येष्टादिष्टा सा दासी द्रुतमभयकुमारपाचे समागत्य तं चित्रपटं च तस्मै पश्चात् समर्प्य निजस्वामिनीमनोरथं रहसि कथयामास. तत् श्रुत्वा प्रसन्नवदनेनाभयकुमारेण प्रोक्तं, भो दासि ! नुनमहं तव स्वामिन्या मनोरथमवसरे पूरयिष्यामि. PAC Gunnan asur M.S Jun Gun Aaradhak

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14