Book Title: Charitra Saptakam
Author(s): Jayanandvijay
Publisher: Guru Ramchandra Prakashan Samiti

View full book text
Previous | Next

Page 367
________________ श्री हरिबलधीवर - चरित्रम् त्वं जीवानुपकुर्यास्तर्हि मौक्तिकसुखं लभेथाः । सर्वजीवदयां कः परिपालयेत्, यश्चारित्रं पालयितुं शक्नुयात् । अतस्त्वयेदानीं यतिधर्मो ग्राह्यः येन मोहादिदुःखं विनाश्यात्मीयराज्यं लभस्व । गुरुवचः समाकर्ण्य परमवैराग्यवान् हरिबलो गृहमागत्य स्वराज्यं ज्येष्ठापत्याय दत्त्वा सत्रिस्त्रीको दीक्षया दीक्षितो बभूव । दीक्षितोऽहर्निशं दुष्करं तपः कृत्वा कर्माणि क्षिप्त्वा शाश्वतसुखमयं मोक्षं प्राप । अतोऽयि भव्याः! जीवदयाविषये हरिबलचरित्रं लक्ष्यीकृत्य विशेषतो जीवदयापरिपालनोद्यतमानसा भवेयुरिति । 356

Loading...

Page Navigation
1 ... 365 366 367 368 369 370