Book Title: Charak Samhita
Author(s): Muni Charak
Publisher: Muni Charak
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
३२४
चरकसंहिता |
अत्र कार्य्यसाधकैकदेशत्वादित्यर्थ स्तेन साध्येन न वैयधिकरण्यम् । एवं क्रमापेचितत्वादित्यत्रापि वक्रमापेक्षितरसादित्वादिति व्याख्येयम् । तस्माद्द्रव्यं प्रधानं द्रव्यलक्षणन्तु क्रियागुणवत् समवायि कारणमिति ।
तन्नेत्याज्डरन्ये । रसास्तु प्रधानम्। कस्मादागमात् । आगमो हि शास्त्रमुच्यते । शास्त्रे हि रसा अधिकृता यथा रसायत्त आहार इति तस्मिंश्च प्राणा दूति । ननु भतायत्ता रसा रसायत्तश्चाहार स्मिंश्चेत्प्राणाः सन्ति सन्तु सच द्रव्याधीन एवेति कथं रसस्य प्राघा - न्यभिति चेन्न रसाः प्रधानमुपदेशात् । उपदिश्यन्ते हि रसाः । यथा मधुराग्ललवणा वातं शमयन्ति इति ।
ननु यथा रसानां वाताद्युपशमकत्वेनोपदेशो ऽस्ति तथा द्रव्याणामपि यथा श्रामलक्यादिरित्येष गणः सर्व्वज्वरापहः। चक्षुष्यो दीपना दृष्यः कफा - रे।चकनाशन इत्यादि इति चेन्न रसाः प्रधानमनुमानात् । रमेन ह्यनुमीयते द्रव्यं यथा मधुरमिति । ननु रसेनानुमीयते द्रव्यं द्रव्येणापि रसना योगेन रमनुभवतीति द्रव्यमेव प्रधानं नतु रसा इति चेन्न रसाः प्रधानम्टपिवचनात्। ऋषिवचनं हि वेदो यथा
For Private And Personal Use Only

Page Navigation
1 ... 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385