Book Title: Chandshastram
Author(s): Pingalacharya, Kedarnath
Publisher: Parimal Publications
View full book text
________________
१९२
. काव्यमा। .
नष्टकृत्तपरिज्ञानार्थमाहलद्धे ।। ८ । २४ ॥ यदेवं विजिज्ञासत-गायत्र्यां समवृत्तं षष्टं कीदृशमिति, तदा तमेव षट्सङ्ख्याविशेषमर्धयेत । तस्मिन्नीकृते लघुरेको लक्ष्यते, स भूमौ विन्यास्यः । इदानीमवशिष्टा त्रिसंख्याविषमत्वादर्धयितुं न शक्यते। तत्र किं प्रतिपत्तव्यमित्याह
सैके ग् ॥ ८ ॥ २५ ॥ - अर्ध इत्यनुवर्तते । विषमसङ्ख्यायामेकमधिकं निक्षिप्य ततोऽर्धयेत । तत्रैको गकारो लभ्यते । तं पूर्वलब्धाल्लकारात् परं स्थापयेत् । ततो द्विसंख्यावशिष्यते । पुनस्तामधयेत , ततश्चैकलकारं दद्यात् । ततश्चैकसंख्यावशिष्यते। तत्र तावत् सैके गिति लक्षणसावर्तनीयं यावदृत्ताक्षराणि षट् पूर्यन्ते । एवं सङ्ख्यान्तरेऽपि योज्यम् ॥
उद्दिष्टवृत्तस्य सङ्ख्यापरिज़ानार्थमाहप्रतिलोमगणं द्विाद्यम् ॥ ८ ॥ २६ ॥ यस्य वृत्तस्य सङ्ख्यां जिज्ञासेत तद्भूमौ प्रस्तारयेत । ततस्तस्यान्ते यो लकारः सजातीयापेक्षया, तमादौ कृत्वा प्रातिलोम्येन द्विरावर्तयेत । तत्र निराकाराया आवृत्तेरसम्भवात् प्रथमातिकमे कारणाभावादेकसङ्ख्या लभ्यते । ततश्चैकसङ्ख्याङ्कमन्त्यलकारस्याधस्तान् स्थापयित्वा द्विगुणयेत् । ततस्तस्मादपनीय तत्पूर्वस्य वर्णस्याधस्तान्निधाय पुनर्द्विगुणयेत् । पुनस्तदपि पूर्वस्य । एवं यावन्ति वृत्ताक्षराणि प्रातिलोम्येन समाप्यन्ते। तत्र याः सङ्ख्या निष्पद्यन्ते, तावतिथं तद्वृत्तमिति ॥
तेन द्विगुरुपादस्य पञ्च भेदा भवन्त्यमी।
सर्वान्तमध्यादिगुरुचतुर्लघुगणाः स्मृताः ॥' इति ।। वृत्तप्रत्ययकौमुद्यामत्र कश्चिद्विशेष उक्तः
“एकमात्रे गुरुनैव त्रिपश्चादौ लशेषतः ।
आदावेव लघुः स्थाप्यस्ततः प्रस्तारजाः क्रियाः ॥' इति । १. मात्रानष्टमुक्तं रत्नाकरसेतो
'संस्थाप्येह पृथयात्रास्तत्र चाङ्कान् समालिखेत् । एकट्य तृतीयाङ्कानाघमात्रात्रये क्रमात् ॥ ततः पूर्वद्वयोन्मिश्रानन्ये पृष्टाडलोपनम् । पूर्वपूर्वतरस्यापि लोपः सम्भवतो भवेत् ॥ यस्य यस्य भवेल्लोपस्तदधो गुरुता भवेत् । परया मात्रयोत्सन्तग्मात्रानष्टं वदेत्सुधीः ॥ इति ।

Page Navigation
1 ... 315 316 317 318 319 320 321 322