Book Title: Chandonushasanam
Author(s): Anantchandravijay
Publisher: Chandroday Charitable and Religious Trust

View full book text
Previous | Next

Page 222
________________ छंदोनुशासन १५७ षट् तदर्ते गुरुः, पुनस्त्रयाध न ददति सैकाश्चत्वारस्तदढे गुरुः, द्वयोरधर्ममेक इति लघुरिति । द्वौ गावेको ल ईदृशं पञ्चम वृत्तं 55। इति समवृत्तनष्टविधिरुक्तो । जातीनां नष्टविधिरुच्यते ॥ ५ नष्टाङ्के गणैर्हृतशेष- ' संख्यो गणो देयो राशिशेषे लब्धं सैकम् । नष्टस्य वृत्तस्या के स्थापिते गणैर्गणविकल्पैहते यच्छेषं तत्संख्यो गणो देयः । यत्र तु राशिशेष भवति, तत्र लब्धं सैकं कार्यम् । ततः पुनस्तस्मिन्नु तरगणविकल्पैर्हते शेषसंख्यो गणो देयः । यथा आर्याप्रस्तारे एका कोटिरेकविंशतिर्लक्षा एकविंशतिः सहस्रा द्वे शते द्वादशोत्तरे इत्येतावत्संख्यं वृत्तं नष्टं कीशमिति पृष्ट प्रथमगणश्चतुर्थवि(वि)कल्प इति चतुभिनष्टाकं हरेत् , लब्धं त्रिंशल्लक्षा स्त्रिंशत्सस्रास्त्रीणि शतानि व्युत्तराणि, शेषं चत्वारीति सद्विकल्पेषु चतुर्थ सर्वलघु न्यसेत् ।।।।] द्वितीयो गणः पञ्चविकल्प इति पञ्चभिर्हरेत् । लब्धं षट् लक्षाः षट् सहस्राः षष्टयधिकाः, राशेश्च हताः शेषं त्रीणीति तद्गणविकल्पेषु तृतीयं मध्यगुरुं न्यसेत् , ततो राशिशेषे लब्धं सैकं इति वचनाल्लब्धं सैकं कृत्वा तृतीयगणश्चतुर्विकल्प इति चतुर्भिर्हरेत् , लब्धमेकं लक्षमेकपञ्चाशत्सहस्राः पञ्च शतानि पञ्चदशोत्तराणि । राशिशेषमेक इति तद्विकल्पेषु प्रथमं सर्वगुरुं न्यसेत्, लब्धं सैकं कृत्वा चतुर्थगणस्य पञ्चविकल्पत्वात्पञ्चभिर्हरेत् लब्धं त्रिंशत्सहस्राः त्रीणि शतानि व्युत्तराणि । राशिशेषमेक इति प्रथमविकल्पं सर्वगुरुं न्यसेत् , ततो लब्धं सैकं कृत्वा पञ्चमगणस्य चतुर्विकल्पत्वाच्चतुभिर्हरेत् , लब्धं पञ्चसप्ततिः शतानि षट् सप्तत्यधिकानि । शेष चत्वारीति चतुर्थविकल्पं सर्वलघु न्यसेत्, ततः षष्ठस्य द्विविकल्पत्वात् द्वाभ्यां हरेत् , लब्धं सप्तत्रिंशच्छतान्यष्टाशीत्याधिकानि, शेष द्वे इति द्वितीयविकल्पं सर्वलघु न्यसेत् । ततः सप्तमगणस्य चतुर्विकल्पत्वाच्चतुभिर्हरेत् । लब्धं नव शतानि सप्तचत्वारिंशदधिकानि । शेषं चत्वारीति चतुर्थविकल्पं सर्वलघं न्यसेत् , अन्ते नित्यविन्यासं गुरुं न्यसेत्, ततः सप्तमगणाल्लब्धं परार्द्धादिगणस्य चतु

Loading...

Page Navigation
1 ... 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260