________________
छन्दोदर्शनम
401
पदपाठः - याः। दिव्याः। इह । धीतिभिः। निऽहिताः ।
सुऽसुम्नैः । सह । धीभिः । च । चित्तिऽभिः ॥ मातरः । पुत्रम्ऽईव । माम् । उपऽआप्ताः । ताः। आपः । देव्यः । स्वम् । ईम् । माम् । पुनन्तु ॥
Here are those Waters which are celestial and are blended with light, intellectual powers, vital energy, and with pleasing essences. May those Water-deities nourish me as mothers do a son and purify me who is their own.
अन्वयभाष्यम् । याः दिव्याः धुलोकसंस्थाः तथा दिवः प्रच्युताः आपः इह अस्मिन् भुवने भुवि धीतिभिः जलसन्धारकाभि: तेजःशक्तिभिः निहिता: सन्धृताः, तथा सुषुम्णैः सुष्ठुसुम्नैःसुखकरै रसैः धीभिः बुध्यादीन्द्रियवृत्तिरूपाभि: प्राणशक्तिभिः चित्तिभिः चेतनाशक्तिभिश्च सह संहिता: ताः आपो देव्यः विश्वमातरः सत्यः इह लोके मातर: स्वं पुत्रमिव स्वीयं रसं प्रदातुं तेन प्राणयितुं मुखयितुं च मां उपप्राप्ताः सत्यः, ई एनं मां निजोपासनापरं स्वसेवनपरं च पुनन्तु पावयन्तु दोषादिभ्यः रक्षन्तु, पतनकारकेभ्यः असद्विषयेभ्यश्च प्रतिनिवर्तयन्तु इति ॥
COMMENTARY_SUMMARY TRANSLATION The Waters have their abode in the sky. They are sustained by the powers of light and lightning which bring down water to the earth. With pleasing essences, with the powers of the vital force in the form of intellect, and with the powers of life-giving energy, may those Water-deities nourish me like the mothers who nourish their children. Let them give me new life and make me happy. May they purify me, who is devoted to them and may they protect me from abnormalities and bad things which cause my fall.
षष्ठी ऋक् । यद् वाचा दुरुक्तं सुधित मम यन्मनसा दुरितं जुष्टमन्तः ॥ यन्मै धीभिः सन्धृतं दुष्टं किञ्चित् ता आपो देव्यः स्वमी मां पुनन्तु ॥ ६ ॥
CD-51