Book Title: Bhattikavyam
Author(s): Bhatti Mahakavi
Publisher: Pandurang Javaji

View full book text
Previous | Next

Page 475
________________ ४४२ भट्टिकाव्ये-चतुर्थे तिडन्त-काण्डे लक्षण-रूपे पञ्चमो वर्गः, त्यजन्ति । विपद्गतं च त्वां हंसन्ति । क्षुद्राः अल्पकायाः क्षोदयन्तीव शुदिमिवाचक्षत इति । भुवने यो हि न्यकृतत्रिलोकः स कथं क्षुद्र उच्यते । २०१५॥ स्थूल-दूर-६४।१५६।' इत्यादिना णौ यणादिपरलोपः पूर्वस्य च गुणः ॥ १४८५-शमं शमं नभस्वन्तः पुनन्ति परितो जगत् , ॥ उजिहीषे महाराज! त्वं प्रशान्तों न किं पुनः ॥२७॥ शममित्यादि-नभस्वन्तो वायवः शमं शमं भान्स्वा शान्त्वा । '३३४३। भाभीक्ष्ण्ये णमुल ३।४।२२।' । '२७६३३ नोदात्त-१३॥३४॥' इति वृद्धिप्रतिषेधः । आभीक्ष्ण्ये द्वे भवतः । परितः सर्वतो जगत् पुनन्ति पवित्रयन्ति । प्रशान्ता अपि पुनर्भूत्वा जगत् पुनन्ति । है महाराज ! त्वं पुनः प्रशान्तोऽपि किं नोजिहीये नोत्तिष्ठसि । 'ओहाङ् गौ' इत्यभ्यासस्य '३४९६३ भृनामित् P७६' । २४९७ ई हत्यघोः-६॥१॥१३॥' इतीत्वम् ॥ १४८६-प्रोोति शोकस् चित्तं मे, सत्वं संशाम्यतीव में, ॥ प्रमार्टि दुःखमालोकं, मुञ्चाम्यूर्ज त्वया विना. ॥ २८ ॥ प्रोणतीत्यादि-हे महाराज ! त्वया विना शोको मम चित्तं प्रोर्णोति आच्छादयति । सत्वं अवष्टम्भः संशाम्यतीव अपगच्छतीव । मां त्यजतीत्यर्थः । दुःखं च कर्तृ आलोकं प्रज्ञानं प्रमार्टि अपनयति । अतस्त्वया विना उर्ज बलं मुञ्चामि । अलसो भवामीत्यर्थः । १४८७-केन संविद्रते-नाऽन्यस् त्वत्तो बान्धव-वत्सलः, ॥ विरौमि शून्ये, प्रोौमि कथं मन्यु-समुद्भवम् ॥२९॥ नेत्यादि-वत्तोऽन्यो बान्धववत्सलो नेति के न संविद्रते न जानते । २६९९। समो गमि-1१।३।२९।' इति तङ् । '२७०१ । वेत्तेर्विभाषा IMAGE इति रुट् । बन्धुरेव बान्धवः । प्रज्ञादित्वादण् । अतोऽहं शून्ये बन्धुविरहिते विरौमि फूरकरोमि । कथं केन प्रकारेण मन्युसमुद्भवं शोकोत्पादं प्रोणामि आच्छादयामि ॥ १४८८-रोदिम्यनाथमात्मानं बन्धुना रहितस् त्वया, ॥ प्रमाणं नौपकाराणामवगच्छामि यस्य ते ॥ ३० ॥ रोदिमीत्यादि-त्वया बन्धुना रहितत्वादनाथोऽस्मीति आत्मानमेव रोदिमि न स्वां कृतकार्यम् । यस्य ते उपकाराणां प्रमाणमियत्तां नावगच्छामि ॥ १४८९-नैदानी शक-यक्षेन्द्रौ बिभीतो, न दरिद्रितः॥ न गर्व जहितोदृप्तौ, न क्लिनीतो दशाऽऽनन! ॥३१॥ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514