Book Title: Ashtasahastritatparya Vivaranam Part 2
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 213
________________ द्वितीयो भागः [परि०८-का. ९०-९१] ६१५ (भा०) अपेक्षाकृतत्वात्तद्व्यवस्थायाः । तथापेक्षानपाये परस्परं सहायत्वेनैव दैवपौरुषाभ्यामर्थसिद्धिः इति स्यात्सर्वं दैवकृतमबुद्धिपूर्वापेक्षातः । स्यात् पौरुषकृतं बुद्धिपूर्वापेक्षातः । स्यादुभयकृतं क्रमापिततद्वयात् । स्यादवक्तव्यं सहार्पिततद्वयात् । स्यादैवकृतावक्तव्यमबुद्धिपूर्वापेक्षया सहार्पिततद्वयात् । स्यात्पौरुषकृतावक्तव्यं बुद्धिपूर्वापेक्षया सहार्पिततद्वयात् । स्यात्तदुभयावक्तव्यमेव क्रमेतरार्पिततद्वयात् । इति सप्तभङ्गीप्रक्रिया पूर्ववत् । दैवैकान्तादिपांशुप्रसरनिरसनोद्भूतसामर्थ्यवृत्तिः, सन्मार्गव्यापिनीयं पवनततिरिवाज्ञानखेदं हरन्ती । बन्धं प्रध्वंसमद्धा सकलमपि बलादानयन्ती नितान्तं, नीतिः स्याद्वादिनीद्धा दृगवगमभृतां निर्वृतिं वः प्रदेयात् ॥१॥ [स्रग्धरा] । इत्याप्तमीमांसालङ्कृतावष्टमः परिच्छेदः । अष्टसहस्रीतात्पर्यविवरणम् सामग्रीप्रविष्टो वाच्य इति, तत्त्वाविनिर्गमात् स्यादैवकृतं सर्वमित्यादिसप्तभङ्गीप्रवृत्तिरविरुद्धा, ईदृशविवक्षामहिम्ना स्याद्दण्डजन्यो घट: स्याच्चक्रजन्य इत्यादि सप्तभङ्गीप्रवृत्तेरपि सम्भवादेकस्वभावेनोभयजन्यत्वविवक्षायामवक्तव्यत्वतद्घटितभङ्गानामपि सावकाशत्वादिति युक्तमुत्पश्यामः । यच्च नियतिद्वात्रिंशिकायां ज्ञानमव्यभिचारं चेज्जिनानां मा श्रमं कृथाः । अथ तत्राप्यनेकान्तो, जिता: स्मः किन्नु को भवान् ॥१॥ इति [श्लो० १६] भगवद्ज्ज्ञानरूपनियत्येकान्तदृढीकरणम्, तद्ज्ज्ञानज्ञेयपरिणामयोः समनियमप्रतिपादके 'जं जहा भगवया दिळू, तं तं तहा विपरिणमड़ इति पारमर्षवाक्ये कार्यकारणभावग्राहकत्वाध्यारोपेण नयवचने आहार्यारोपस्यापि निमित्तत्वादित्याधुपदेशामृततरङ्गिण्यां प्रपञ्चितमस्माभिः ॥९१॥ दैवं बलीय इति केचन पौरुषं च, केचिद् वदन्ति न तु तुल्यवदाद्रियन्ते । तत्पक्षपातविषमाचलपक्षपातवज्राभिघातसमतामियमेति युक्तिः ॥१॥ [वसन्ततिलका] १. यद् यद् यथा भगवता दृष्टं, तत् तत्तथा विपरिणमति ।

Loading...

Page Navigation
1 ... 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294