Book Title: Anyokti Muktavali
Author(s): Hansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 152
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४४ काव्यमाला। कथयत इव नेत्रे कर्णमूलं प्रयाते सुमुखि तब कुचाभ्यां वर्त्य पश्यावनी वा । स्खलति यदि कथंचित्ते पदाम्भोजयुग्मं तव तनुतरमध्यं भज्यते नौ न दोषः ॥२०॥ यथा यथा स्यात्स्तनयोः समुन्नतिस्तथा तथा लोचनमेति वक्रताम् । अहो सहन्ते बत नो परोदयं निसर्गतोन्तर्मलिना ह्यसाधवः॥२१॥ बाले तव कुचावेतौ नियतौ चक्रवर्तिनौ । आसमुद्रकरग्राही देवो यस्य करप्रदः ॥ २२ ॥ निगदितुं विधिनापि न शक्यते सुभटता कुचयोः कुटिल वाम् । सुरतसंगतया प्रियपीडितौ बत नतिं न गतौ च्युतकञ्चकौ ॥ २३ ॥ अणुरायरयणभरियं कञ्चणकलसावि तरुणिथणजुअलम् । ता किं मुहम्मि कालं मसि मुद्दामयणरायस्स ॥ २४ ॥ अङ्गानि मे दहतु कान्तवियोगवह्निः ___ संरक्ष्यतां प्रियतमो हृदयस्थितो मे । इत्याशया शशिमुखी गलदश्रुवारि धाराभिरुष्णमभिसिञ्चति हृत्पदेशम् ॥ २५ ॥ उपरिनाभिसरःपरिताडिता पटकुटीव मनोभवभूपतेः । विजयिनस्त्रिपुरारिविजी(जिगी)षया तव विराजति भामिनि कञ्चुकी२६। यदेतन्नेत्राम्भः पतदपि समासाद्य तरुणी___ कपोले व्यासङ्गं कुचकलशमस्याः कलयति । ततः श्रोणीबिम्बं व्यवसितविलासं तदुचितं स्वभावखच्छानां विपदपि विलासं वितरति ॥ २७ ॥ धनिनि जने चटु पटुतां जल्पतु रसना रसाशने लुब्धा । त्वमशनपाननिरस्तमस्तकचरणे कथं लुठसि ॥ २८ ॥ एते कूर्चकचाः सकङ्कणरणत्कर्णाटसीमन्तिनी हस्ताकर्षणलालिताः प्रतिदिनं प्राप्ताः परामुन्नतिम् । १. 'पश्यावरुद्धम्' इत्युचितं प्रतिभाति. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183