Book Title: Anargha Raghavam
Author(s): Murari, Durgaprasad Pandit, Vasudev Lakshman Shastri
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 320
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - ३१३ ७ अङ्कः] अनघराघवम् । राज्ञामिह प्रवसतां च विचिन्त्य सिद्धिं देवः शचीसहचरोऽपि न रोचते नः ॥ १३२ ॥ रामः—(तौ प्रति ।) वयस्यौ, ईदृशाः प्रागजायन्त राजानो यदिहान्वये । तद्वसिष्ठचरोरैन्द्राबार्हस्पत्यस्य वैभवम् ।। १३३ ॥ (पुरोऽवलोक्य सहर्षोल्लासम् ।) कथं स एवायं भगवान्प्रकल्पितास्मदभिषेकसंभारो भरतशत्रुघ्नाभ्यां सेह वसिष्ठो मां प्रतीक्षमाणस्तिष्ठति । (पुष्पकं प्रति ।) विमानराज, समवतीर्यतामस्यां ककुत्स्थकुलोपकारिकायाम् । (सर्वे विमानावतरणं नाटयन्ति ।) __(ततः प्रविशति पटाक्षेपेण वसिष्ठो भरतशत्रुघ्नौ च ।) वसिष्ठः चक्रे लङ्केश्वरपरिभवच्छेदनिष्णातदोष्णा ___यद्वत्सेन त्रिजगदभयं तन्न चित्रीयते नः । बालेनाजो विगलितवतो वीर्यनिर्यासराशे यत्पिण्याकः स मुनिरमुना निर्मितो जामदम्यः ॥ १३४ ॥ वस्थितानां राज्ञां सिद्धिं च विचिन्त्य नोऽस्मभ्यं शचीसहचरोऽपीन्द्रोऽपि न रोचते न प्रीतिविषयः । कीदृशीम् । क्रतुसहस्रभुवां क्रतुसहस्रैर्जातानां फलानां वृन्तैरिव यूपसमूहै. मधुरां रम्याम् । अन्येषामपि फलानां वृन्तादिकं भवतीति ध्वनिः । तथा चात्र यज्ञसहस्रजन्यफलप्राप्तेरिन्द्रोऽपि न रोचत इति भावः । वसिष्ठप्रवेशं सूचयितुं भूमिमारचयति-ईदृशा इति । ऐन्द्राबार्हस्पत्यस्येति इन्द्राबृहस्पती देवते यस्य तस्य । वसिष्टचरोरित्यस्य विशेषणम् । 'देवताद्वन्द्वे च' इत्युभयपदवृद्धिः । इन्द्रश्च बृहस्पतिश्चेति द्वन्द्वे 'देवताद्वन्द्वे च' इति पूर्वपदे आनङ् । 'हव्यपाके चरुः पुमान्' इत्यमरः । वैभवं प्र. भावः । उपकारिका राजगृहम् । 'राजसदनमुपकार्योपकारिका' इत्यमरः । चके इति । वत्सेन रामेण त्रिजगद्धवनत्रयमगदं रोगशून्यं यत्कृतं तन्न चित्रीयते नाश्चर्ययति। ननु त्रिजगदेव कुतो रोगशून्यं कृतमित्यत आह-कीदृशेन । लङ्केश्वरस्य यः परिभवोऽभिभवश्छेदः खण्डनं च तत्र निष्णातः कुशलो दोर्बाहुर्यस्य तेन । निष्णात इति 'निनदीभ्यां स्नातेः कौशले' इति षत्वम् । 'भुजबाहूप्रवेष्टो दोः' इत्यमरः । ननु दुर्दलन १. 'प्रभवताम्'. २. 'तादृशाः'. ३. 'सहर्षम्'. ४. 'उपकल्पित-'. ५. 'सह वसिष्ठो' इति पुस्तकान्तरे नास्ति. ६. 'अवतार्यतां'. ७. 'रघुकुल-'. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 318 319 320 321 322 323 324 325 326 327 328 329 330 331