Book Title: Anargha Raghavam
Author(s): Murari, Durgaprasad Pandit, Vasudev Lakshman Shastri
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 18
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १ अङ्कः] अनर्घराघवम् । तेन, कलहकन्दलनाम्ना कलहाकरतया प्रसिद्धन, कुत्सितं शीलं कुशीलं तद्योगिना कुशीलवेन रावणेन । वप्रकरणे 'अन्येभ्योऽपि दृश्यते' इति मत्वर्थीयो वः । कमप्यनिर्वचनीयम्, प्रबन्धं कपटं परवञ्चनोपायम् , यद्वा प्रकृष्टो बन्धः प्रबन्ध इन्द्रादीनां यत्र तत्प्रबन्धं युद्धादिविन्यासम् , अभिनयताभिव्यञ्जयता । कुर्वतेति यावत् । कीदृशम् । रौद्रं तीव्रता, बीभत्सं विकृतरूपता, भयानकं युद्धादौ भयंकरत्वम् , अद्भुतमाश्चर्यकरत्वम् , एतैर्भूयिष्ठं बहुलम् । यद्वा कस्यचिन्मारणादिना रौद्रः, कस्यचिदलिदानादिना बीभत्सः, कस्यचिन्मायादिना भयानकः, कस्यचिदद्भुतकर्मणा कैलासोत्पाटनादिनाद्भुतो रसः, एभिर्भूयिष्ठं बहुलम् । नित्यं बहुशः, अयं लोको भुवनम् , उद्वेजितः किल । किलागमे । 'लोकस्तु भुवने जने' इत्यमरः । एतावतोद्वेगलक्षणो बिन्दुरुत्पन्नः। यदाह भरतः-'प्रयोजनानां विच्छेदे फलविच्छेदकारणम् । फलं यावच्च नोदेति स बिन्दुरिति शक्य(कथ्यते ॥ तैलबिन्दुयेथा तोयं खशक्त्या व्याप्य तिष्ठति । काव्याङ्गानि तथा बिन्दुः संदर्य मुखतां व्रजेत् ॥' इति । यथा वेणीसंहारे-'लाक्षागृहानल-' इत्यादिनापमानलक्षणो बिन्दुः । उद्वेगश्चायं सप्तखङ्केषु बोद्धव्यः । यथा 'अपि कथमसौ' इति प्रथमाङ्के । 'अलमिष्ट्वा मखान्' इति द्वितीयाङ्के । 'कन्यामयोनिजन्मानम्' इति तृतीयाङ्कादाबूह्यमिति । अभिमतेति । अभिमतो रसो वीरो भावश्चेष्टा तद्योगिनः प्रेक्षणकस्येति प्रेङ्खन्ति गच्छन्ति वीरा अस्मिन्निति प्रेङ्खणं युद्धम् । अधिकरणे ल्युट् । प्रयोगानुज्ञया कृत्यनुमत्या कृतिस्मृल्या वा । नाट्यस्य वेदो धनुर्वेदः । 'नट अवस्कन्दने' चौरादिकण्यन्तादवस्कन्दनार्थत्वाद्धातोः 'अचो यत्' इति यत् । हिंसार्थता च 'जासिनिप्रहणनाटकाथपिषां हिंसायाम्' इत्यत्र हिंसायां वृत्तेः। तस्योपाध्यायोऽध्यापकः कौशिक एव । स च क्षत्रियजातित्वात्संस्कारविशेषाद्राह्मणत्वाच द्वैरूप्यावगमाद्बहुरूपः । एतदेव वक्ष्यति–'यः क्षत्रदेहम्' इत्यादिना । तस्यान्तेवासी शिष्यः, मध्यदेशीयोऽयोध्याप्रभवः, सुचरितः सुष्टु चरितं व्यापारो यस्य सः, नाम प्र. सिद्धः, 'नाम प्राकाश्यसंभाव्यप्रसिद्धिषु निगद्यते' इति विश्वः । बिभर्ति पुष्णाति भूमिमिति भरतो राजा दशरथः । 'भृञादिभ्योऽतच्' इत्यौणादिकोऽतच्प्रत्ययः । तस्य पुत्रः। यद्वा भरतः पुत्रः कनिष्ठो यस्य स रामः । 'कनिष्ठेऽपि सुते पुत्रः' इति विश्वः । पुत्र. वाचकपर्यायशब्दाः कनिष्ठवाचका अपि भवन्ति । यथा किरातार्जुनीये-'अनुस्मृताखण्डलसूनुविक्रमः' इति । सदस्यानां देवानामृत्विजां वा, प्रीतिनाम मम रङ्गोपजीविनो रणोपजीविनो योधस्य क्षत्रियस्य वा या प्रिया सीता च तस्या अपहर्तारं रावणं जित्वा प्रीतिं सीतां चानयामि । एतेन सीताहरणादारभ्य रावणवधपर्यन्तं सूचितम् । 'सदस्या विधिदर्शिनः' इत्यमरः । 'रङ्गो नृत्ये रणे रागे' इति धरणिः । एतावता प्रीतिसीतापहारलक्षणं बीजम् । यदाह भरतः-'स्वल्पमानं समुद्दिष्टं बहुधा यद्विसर्पति । फलावसानपर्यन्तं तद्बीजमिति कीर्तितम्' इति । यथा वेणीसंहारे—'निपतन्ति धार्तराष्ट्राः कालवशान्मेदिनीपृष्टे ॥' इति । वैदेशिको विः पक्षी तस्य देशो वनं तत्र स्थाता वैदेशिको वनवासी।अध्यात्मादित्वाहा । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 331