Book Title: Anand Ratnakar Anand Lahri Tippani Sahit
Author(s): Suryodaysagar Gani
Publisher: Agamoddharak Jain Granthmala
View full book text
________________
श्री कर्मव्रन्थ० उपो० टिप्पणी ]
[ ११३.
= मूलं
आगमानामभ्यासः, तद्रूपः यः कल्पः = कल्पवृक्षः, तस्य या व्रतती = लता, तस्याः कन्दः = तत्कल्पा इति तात्पर्यानुसारी अर्थो विज्ञेयः ।
१०. तत्रभवतां पूज्यानां उद्देशः = आगमानामध्यापनं प्रत्रजनं = संयमावाप्तिः इत्यादिसम्बन्धिनो ये आचार्याः = गुरव इति ।
१०१. भगवतां = गुरुपादानां चरणरूपौ यौ चञ्चरीकौ कमले, तस्य यः मकरन्दः तेनः मत्तः मनःरुपः मधुपः भ्रमरोः येषामिति विग्रहः ।
१०२. अत्र ह्येवमन्वयोऽवबोध्यः यत् – ' इत्यादि विद्वद्वृन्दारकाणां बंधीय अत्र ज्ञेयम् इति । १०३. अतिशयेन विपुलम् ।
१०४. अत्र ह्येवमन्वयसङ्गतिः यत् - " वरं तत् यथायथं श्रेष्ठि........द्वारा मुद्रिताया वन्दारुवः प्रस्तावनातः ज्ञेयम् ।”
१०५. श्रीमतां = पूज्यवर्याणां हृदयरूपं यत् पद्मं तस्मात् प्रभवः = उत्पत्तिः, यस्यैतादृशी या प्रस्तावना, तद्रुपिणी पीयूषाशनानां देवानां तेषां तरङ्गिणी नदी स्वर्गगेति यावत् ।
१०६. — तत्’पदेन पूज्याचार्य श्री देवेन्द्रसूरीश्वरपरामर्शः करणीयः ।
१०७. दृष्टिवादस्य=द्वादशाङ्गस्य यत् वदनं = स्वरूपनिरूपणं, तेन अतिक्रान्तं वेदानां यजुर्वेदादीनां वादकस्य = उ चारकस्य ब्रह्मणः सहस्रं येन, तथा अनन्तानामर्थानां ज्ञापने दृढं दृष्टिवादस्य = पानम् =भर्थश्रवणम्, तदेव पीयूषं तेन पीनं यत् प्रवचनं श्रुतज्ञानं, तेन प्रधानतरः, स चासौ इति चात्र तात्पर्यगामिकयोहया शब्दार्थसङ्गतिः कार्या ।
१०८. श्रीमन्तो ये अकलङ्काः = कलङ्कशून्याः तीर्थकृतः, तेषामास्यरूपं यत् पद्महदः, तस्मात् निर्गता या " उप्पण्णे वा विगमेइ वा धुवेइ=वा " इति रुपा या त्रिपथगा = गङ्गा तद्वदाचरमाणा, अशेषे विश्वे व्याप्तः यः वस्तूनां विस्तरः, तदनुसारिणी या पदत्रयी तस्याः पानं, तेनोद्भूतं यत् उद्भवतां=वर्तमानकालीनानां भाविनां भावानामवभासनं, तस्मै प्रभुः = समर्था या भारती = वाणी, तस्याः भरः समूहः, यैरवाप्तः एतादृशो ये गणभृतः = गणधराः, तैः प्रणीता या द्वादशाङ्गी, तद्रूपं यत् गणिन: = आचार्यस्य यत् पिटकं, तस्य अन्त्यभाग इति तात्पर्यानुसारी अन्वयोऽत्र समूहनीयः ।
"
१०९ षडधिकानि नवतिः शतानि यत्रैतादृशानि अष्ट सहस्राणि (८०९६) तद्रूपं मानं येषां तथा अविचलं यत् मानं पञ्चशतधनुः प्रमाणं एतादृशा ये महाविदेहक्षेत्रीया ये मातङ्गाः =
१५

Page Navigation
1 ... 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188