Book Title: Agam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 478
________________ द्वारं - २, अध्ययनं -२, ४७५ सिध्यन्तिति भावः स्वर्गमार्गस्य सिद्धिपथस्य च देशकं - प्रवर्त्तकं यत्तत्तथा अवितथं वितथरहितं 'तं सच्चं उज्जुगं' ति सत्याभिधानं यद् द्वितीयं संवरद्वारमभिहितं तदृजुकं ऋजुभावप्रवर्त्तितत्वात् तथा अकुटिलं अकुटिलस्वरूपत्वात् भूतः - सद्भूतोऽर्थः - अभिधेयो यस्य तद्भूतार्थं अर्थतः - प्रयोजनतो विशुद्धं - निर्दोषं प्रयोजनापन्नमिति भावः, उद्योतकरं - प्रकाशकारि, कथं यतः प्रभाषकं-प्रतिपादकं भवति केषां कस्मिन्नित्याह- सर्वभावनां जीवलोके - जीवाधारे क्षेत्रे, प्रभाषकमिति विशिनष्टि- अविसंवादि - अव्यभिचारि यथार्थमितिकृत्वा मधुरं - कोमलं यथार्थमधुरं प्रत्यक्षं दैवतमिव-देवतेव यत्तदाश्चर्यकारकं - चित्तविस्मयकरकार्यकारकं तदीदृशं केषु केषामित्याह - अवस्थान्तरषु - अवस्थाविशेषेषु बहुषु मनुष्याणां यदाह“सत्येनाग्निर्भवेच्छती, गाधं दत्तेऽम्बु सत्यतः । नासिश्चिनत्ति सत्येन, सत्याद्रज्जूयते फणी ॥ " || 9 || एतदेवाह - सत्येन हेतुना महासमुद्रमध्ये तिष्ठन्ति न निमज्जन्ति, 'मूढाणियावित्ति मूढं-नियतदिग्गमनाप्रत्ययं 'अणियं' ति अग्रं तुण्डं अनीकं वा तत्प्रवर्त्तकं जनसैन्यं येषां ते तथा तेऽपि पोता-बोधिस्थाः, तथा सत्येन च उदकसम्भ्रमेऽपि -सम्भ्रमकारणत्वादुदकप्लवः उदकसम्भ्रमस्तत्रापि 'न वुज्झइ' त्ति वचनपरिणामान्तोरह्यन्ते-न प्लाव्यन्ते न च म्रियन्ते स्ताधं च - गाधं च ते लभन्ते, सत्येन चाग्निसम्भ्रमेऽपि - प्रदीपनकेऽपि न दह्यन्ते, ऋजुका - आर्जवोपेताः मनुष्या - नराः सत्येन च तप्ततैलत्रपुलोहसीसकानि प्रतीतानि 'छिवंति 'त्ति छुपंति धारयन्ति हस्ताञ्जलिभिरिति गम्यते न च दह्यन्ते मनुष्याः, पर्वतकटकात्-पर्वतैकदेशाद् विमुच्यन्ते न च म्रियन्ते, सत्येन च परिगृहीता युक्ता इत्यर्थः असिपञ्जरे-शक्तिपञ्जरे गताः खङ्गशक्तिव्यग्रकर-रिपुरुषवेष्टिता इत्यर्थः समरादपि-रणादपि 'निंति' त्ति निर्यान्ति-निर्गच्छन्ति, अनघाश्च - अक्षतशरीरा इत्यर्थः, " -- के इत्याह सत्यवादिनः - सत्यप्रतिज्ञाः वदबन्धाभियोगवैरधोरेभ्यः - ताडनसंयमनबलात्कारघोरशात्रवेभ्यः प्रमुच्यन्ते अमित्रमध्यात् - शत्रुमध्यान्निर्यान्ति अनघाश्च - निर्दोषाः सत्यवादिनः, सादेव्यानि च - सान्निध्यानि च देवताः कुर्वन्ति सत्यवचनरतानां, आह च119 11 "प्रियं सत्यं वाक्यं हरति हृदयं कस्य न जने ?, गिरं सत्यां लोकः प्रतपदमिमार्थयति च । सुराः सत्यद्वाक्याद्दतति मुदिताः कामिकफलमतः सत्याद्वाक्याद्व्रतमभिममतं नास्ति भुवने ।।" 'त’मिति यस्मादेवं तस्मात्सत्यं द्वितीयं महाव्रतं भगवद्-भट्टारकं 'तीर्थकरसुभाषितं' जिनैः सुष्ट्रक्तं दशविधं - दशप्रकारं जनपदसम्मतसत्यादिभेदेन दशवैकालिकादिप्रसिद्धं चतुर्द्दशपूर्विभिः प्राभृतार्थवेदितं पूर्वगतांशविशेषाभिधेयतया ज्ञातं महर्षीणांच समयेन - सिद्धान्तेन 'पइन्नं'ति प्रदत्तं समयप्रतिज्ञा वा- समाचारभ्युपगमः, पाठान्तरे 'महरिसिसमय पइन्नचिन्नं'ति महर्षिभिः समयप्रतिज्ञा-सिद्धान्ताभ्युपगमः समाचाराभ्युपगमो वेति चरितं यत्तत्तथा, देवेन्द्रनरेन्द्रैर्भाषितः जनानामुक्तोऽर्थः - पुरुषार्थस्तसत्साध्यो धर्मादिर्यस्य तत्तथा, अथवा देवेन्द्रनरेन्द्राणां भासितः - प्रतिभासितोऽर्थः - प्रयोजनं यस्य तत्तथा, अथवा देवेन्द्रा दीनां भाषिताः अर्था - जीवदयो जिवनचनरूपेण येन तत्तथा, तथा वैमानिकानां ससाधितं - प्रतिपादितमुपा देवतया Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548