Book Title: Agam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 17
________________ १४ बृहत्कल्प-छेदसूत्रम् -१वृयद् ज्ञानम् 'अपरायत्तं' नोत्पत्तौ परस्य वशवर्ति तत् प्रत्यक्षम् । तच्च वक्ष्यमाणं त्रिविधमवध्यादिकम् । यच्चोत्पत्तौ परतः' परस्याऽऽयत्तंतत् सर्वं भवतिपरोक्षम्।चाक्षुषादिकमपि च विज्ञानमुत्पत्त परस्य चक्षुरादेरायत्तम् अतः परोक्षम् ।। सम्प्रति त्रिविधं प्रत्यक्षं द्विविधं च परोक्षमुपदर्शयति[भा.३०] ओहि मनपञ्जवे या, केवलनाणं च होति पच्चक्खं । आभिनिबोहियनाणं, सुयनाणं चेव पारोक्खं ।। वृ-अवधिज्ञानं मनःपर्यवज्ञानं केवलज्ञानं च भवति प्रत्यक्षम् । आभिनिबोधिकज्ञानं श्रुतज्ञानं च परोक्षम् ।। तत्राऽवधिज्ञानं चतुर्विधम, तद्यथाः द्रव्यतः क्षेत्रतः कालतो भावतश्च, तत्र द्रव्यतस्तावदाह[भा.३१] विवरीयवेसधारी, विजंजणसिद्ध देवताए वा। छाइय सेवियसेवी, बीयादीओ वि पच्चक्खा ॥ कृनेपथ्यपरावर्त्ततोगुटिकाप्रयोगतः स्वरपरावर्ततोवर्णपरावर्त्ततो विपरीतंवेषंधारयन्तीति विपरीतवेषधारिणस्ते, तथा ये विद्यासिद्धा अञ्जनसिद्धा देवतया वा छादिताः, ये च तैः सेवितसविनः, ये च बीजादयः कुशूलादिन्यस्तास्ते सर्वेऽवधिज्ञानिनः प्रत्यक्षाः ।। [भा.३२] पुढवीइ तरुगिरिया सरीरादिगया य जे भवे दव्या। परमाणू सुहदुक्खादओ यओहिस्स पच्चक्खा ।।। . तथा-यानि पृथिव्यां यानि तरुषु यानि च गिरिषु, गाथायामेकवचनं समाहारत्वात्, द्रव्याणि, यानिच शरीरादिगतानि द्रव्याणि, ये च परमाणवः, ये 'सुख-दुःखादयः' इन्द्रियमनःशरीरस्वास्थ्या-ऽस्वास्थ्यरूपास्तेऽप्यवधेः प्रत्यक्षाः॥ [भा.३३] अच्चंतमनुवलद्धा, विओहिनाणस्स होति पच्चक्खा। ओहिन्नाण परिगया, दव्वा असमत्तपजाया। वृ- अत्यन्तं चक्षुरादिनाऽनुपलब्धा अपि पदार्था अवधिज्ञानस्य भवन्ति प्रत्यक्षाः । अवधिज्ञानेन च द्रव्याणि 'परिगतानि' परिज्ञातानि भवन्ति असमाप्तपर्यायाणि, न समस्ताः पर्याया द्रव्याणां ज्ञातुंशक्यन्त इतिभावः। यदि हि समस्तानपि पर्यायान्जानीयात्ततःस केवली भवेत् ।। उक्तं द्रव्यतोऽवधिज्ञानम्, अधुना क्षेत्रादित आह[भा.३४] खित्तम्मि उजावइए, पासइ दव्वाइँ तं न पासइया। काले नाणंभइयं, को सो दव्वं विना जम्हा || वृ-क्षेत्रेजघन्यतउत्कर्षतो वा यावन्तिद्रव्याणि पश्यति तत् क्षेत्रंन पश्यति, अवधिज्ञानस्य मूर्तविषयत्वात्, “रूपिष्ववधेः” इति वचनात्, क्षेत्रस्य चामूर्त्तत्वात्।तत्रजघन्यतः क्षेत्रपरिमाणं "जावतिया तिसमयाऽऽहारगस्स०" इत्यादिना, उत्कर्षतः “सव्वबहुअगनिजीवा०" इत्यादिनाऽभिहितम्।शेषंतु तदन्तर्गतंमध्यममिति। तथा 'काले कालविषये ज्ञानं भक्तं' विकल्पितम्, भवति वान वेति भावः । कथम्? इति चेत्, उच्यते-इह यदि कालद्रव्यं समयक्षेत्रभाविसमयमात्रं परिणाम्यभ्युपगम्यतेतदातदमूर्त्तत्वानाऽवधिज्ञानविषयः । यदि पुनः कोऽसौनाम 'द्रव्यं द्रव्यपर्यायं विनाऽन्यः कालः ? यस्माद् द्रव्यस्यैवाऽवस्थाविशेषः कालः, यत उक्तम्- दव्वस्स चेव सो For Private & Personal Use Only www.jainelibrary.org Jain Education International

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 1500