Book Title: Adwait Dipika Part 01
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya

View full book text
Previous | Next

Page 266
________________ प्रथमः परिच्छेदः 245 विषयत्वे बाधकाभावाच असत्यपि बाधेन्यप्रतोतेरन्यविषयत्वेऽति. प्रसङ्गात् / दुःखाभावानुमितिलिङ्गानिरूपणाच्च परामर्श एवायम् / न तावत्तत्कालोनदुःखवत्ताऽस्मरणं तत्कालीनदुःखाभावे लिङ्गम् / अनुभूते स्मृतिनियमाभावेनाप्रयोजकत्वात् / न च स्वसत्तायामवश्यानुभवस्य नियमेनास्मरणमभावव्याप्तमिति वाच्यम् / अनुभूतेऽपि सुखादौ कस्मिंश्चित्तदभावदर्शनात् / किं च तदा दुःख. वत्तया या स्मृतिस्तदभावो हेतुः। तदा यद् दुःखं तद्गोचरस्मृतिविरहो वा तदा यो दुःखवत्तया स्मृतिविरहः स वा ? प्रतियोग्यप्रसिद्ध्या हेत्वसिद्धिः / न प्रथमौ। सुषुप्तिकालीनदुःखतद्गोचरस्मृत्योरसत्वेन तद्विरहासिद्धय॑धिकरणतद्विरहयोरलिङ्गत्वाच्च / नापि तृतीयः / दुःखवत्यात्मनि व्यभिचारात् / दुःखानुभवकाले तत्स्मृतिविरह सुखाभावेऽपि नित्यसुखविषयत्वोपपत्तेरित्याह-सुखविषयत्व इति / अनुमितिकरणस्यापि निर्वक्तमशक्यत्वात्परिशेषादयं परामर्श इत्याह-दुःखाभावेति / "अहं सुषुप्तिकाले दुःख रहितः तत्कालीनदुःखवत्तया स्मरणरहितत्वात्सुख्यह. मिव" इत्यादि लिङ्गमस्तीत्याशङ्कयाह-न तावदिति / कदाचिदनुभूतस्य विद्यमानस्यापि घटादेरस्मय माणत्वान्नास्मरणं प्रमेयाभावव्याप्तमित्यथः / ननु दुःखस्य ज्ञायमानसत्ताकतया घटादिविलक्षणत्वात्तदस्मरणं तदभावमन्तरेणानुपपन्नमिति चेन्न / चिरातीतसुखादेस्तत्कालीनतया स्मरणाभावेऽपि तदा सत्त्वादित्याह-न च स्वसत्तायामिति / कि च तत्कालीनत्वं स्मरणस्य विशेषणमुत दुःखस्य किं वा स्मरणविरहस्येति विकल्पवति -किं चेति / / प्रथमद्वितीययोः प्रतियोग्य प्रसिद्धया हेत्वसिद्धिमाह-न प्रथमाविति / नम्वेकस्य सुषुप्तिकालंऽपरस्य दुःखतत्स्मरणयोः संभवान्न तदभावोऽसिद्ध इत्यत आह-व्यधिकरणेति / स्वदुःखे सत्यपि परकीयदुःखतत्स्मरणयोर्विरहस्यापि सत्त्वेन व्यभिचारादित्यर्थः / स्वापकालीनो यो दुःखस्मृतिविरहः तस्य दुःखानुभवकालेऽपि सत्त्वाद् व्यभिचारेण दूषयति-नापीति / स्वापकाले दुःखविरहव

Loading...

Page Navigation
1 ... 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298