Book Title: Adhyatmamatpariksha Swopagnyavruttyupeta
Author(s): Yashovijay Upadhyay,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
Jain Education
0000
|| वेदनाभिभूततया प्रतिकूलवेदनीयतया नरायुरपि पापत्वमास्कन्देद्, न चैवमस्ति, नरतिर्यक्सुरायुषां पुण्यप्रकृतित्वेन प्रतिपादनात्, तथापि निश्चयतस्तद्दशायां तथात्वे यत्सामान्याक्रान्तस्य सर्वस्य प्रतिकूलवेदनीयत्वम् तत्सामान्याक्रान्तस्यैव व्यवहारनयः पापत्वमनुमन्यते, यथा नरकायुषो न त्वन्यस्येति सर्वमवदातम् तथा परमाशुचिभूतानां स्त्रीणां परमपावित्र्यपात्रपरमौदा रिकशरीरं न सम्भवेद्, न च परमौदारिकशरीरहीनाः केवलिनः सम्भवेयुरिति न स्त्रीणां मुक्तिः ॥ १६८ ॥ अत्रोच्यते - एयमजुत्तं जम्हा विचित्तभावा विचित्तकम्मखओ । ण य इत्थित्तं पावं जिणाण पाएण णत्थित्ति ॥ १६९॥ एतदयुक्तं यस्माद्विचित्रभावाद्विचित्रकर्मक्षयः । नच स्त्रीत्वं पापं जिनानां प्रायेण नास्तीति ।। १६९ ।।
यत्तावदुक्तं 'स्त्रीणां पुरुषापेक्षया प्रबलकर्मत्वान्न तेभ्यो हीनेन चारित्रेण तासां कर्मक्षय इति' तदसत्, तेभ्यः प्रबलकर्मत्वस्यैव स्त्रीणामसिद्धेः, स्त्रीवेदस्य पुंवेदापेक्षया प्राबल्येपि तस्य पुरुषेष्वप्यबाधितत्वाद्, नैरन्तर्येण प्रज्वलनस्य चानियतत्वात् कविवत् (?) स्त्रीत्वसमनियतानां दोषाणां प्राबल्येपि क्वचित्पुंस्त्वसमनियतानां दोषाणां अपि प्राबल्यात्, अस्तु वा पुरुषापेक्षया प्रबलकर्मत्वं स्त्रीणाम्, “तुष्यतु दुर्जन" इति न्यायात्, तथापि तासां भाववैचित्र्यादेव विचि त्रकर्मक्षयः; अध्यवसायवैचित्र्यादेव निर्जरावैचित्र्यप्रतिपादनात्, अन्यथा सर्वेषां चारित्रिणां समनिर्जरत्वप्रसङ्गात्, नन्वेवमन्यथैव भाववैचित्र्य सम्भावनया जिनकल्पिकादीनां जिनकल्पादौ प्रवृत्तिर्न स्यादित्युक्तं किं विस्मृतमिति चेन्न विस्मृतं त्वयैव प्रत्युतायुक्तमुक्तं, शक्त्यनिगूहनेन संयमवीर्योल्लास एव हि चारित्रं परिपूर्यते, जिनकल्पिकादीनां च स्थविरकल्पापेक्षया विशिष्टमार्गे जिनकल्पे शक्तानां विपरीतशङ्कया तत्र शक्तिनिगूहने चारित्रमेव हीयेत, कुत
For Private & Personal Use Only
H
jainelibrary.org

Page Navigation
1 ... 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240