Book Title: Abhidhana Sangraha Part 02
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रहः-८ अनेकार्थसंग्रहः ।
बनजो मुस्तके स्तम्बेरमे वनजमम्बुजे । वनजा तु मुद्गपर्यो सहजः सहसंभवे ॥ ७४६ निसर्गे च सामजस्तु सामोत्थे कुअरेऽपि च | हिमजो मेनकापुत्रे हिमजा पार्वती शढी ॥ ७४७ क्षेत्रज्ञावात्मनिपुणो दोषज्ञः प्राज्ञवैद्ययोः । सर्वज्ञस्तु जिनेन्द्रे स्यात्सुगते शंकरेऽपि च ॥ ७४८ अवटः कृपखिलयोर्गर्ते कुहकजीविनि । अरिष्टो लशुने निम्बे फेनिले कङ्ककाकयोः ॥ ७४९ अरिष्टं सत्यगारेऽन्तचिट्टे तक्रे शुभेऽशुभे । अवटुर्गन्धुिघाटासूत्कटस्तीत्रमत्तयोः ॥ ७५० उच्चटा दम्भचर्यायां प्रभेदे लशुनस्य च । करटः करिगण्डे स्यात्कुसुम्भे निन्द्यजीवने ॥ ७५१ काके वाद्ये दुर्दुरूढे नवश्राद्धेऽथ कर्कटः । कुलीरे करणे स्त्रीणां राशौ खगेऽथ कर्कटी॥ ७५२ शाल्मलीफलवालुकयोः कार्यटो जतुकार्यिणोः । कीटकः कृपणे निःस्वे देशभेदे तुरङ्गमे ॥ ७५३ कुरण्टो झिण्टिकाभेदे कुरण्टी दारुपुत्रिका । कुक्कुटः कुकुभे ताम्रचूडे वह्निकणेऽपि च ॥ ७५४ निषादशूद्रयोः पुत्रे कृपीटस्तूदरे जले । चक्राटो धूर्ते दीनारे विषवैद्येऽथ चर्पटः॥ ७६५ चपेटे स्फारविपुले पर्पटे चिपुटः पुनः । पृथुके पिञ्चटेऽपि स्याच्चिरण्टी तु सुवासिनी ॥ ७५६ तरुणी च जकूटस्तु वार्ताककुसुमे शुनि । येमले व्यङ्गटो धौताञ्जन्यां शिक्यभिदीश्वरे ॥ ७५७ त्रिकूट सिन्धुलवणे त्रिकूटस्तु सुवेलके । त्रिपुटौ तीरसातीनौ त्रिपुटा त्रिवृदोषधौ ॥ ७५८ सूक्ष्मैलायां मल्लिकायां द्रोहाटो मृगलुब्धके । चतुष्पदीप्रभेदे च विडालतिकेऽपि च ॥ ६५९ धाराटश्चातकेऽश्वे च निर्दटो निष्प्रयोजने । निर्दयेऽन्यदोषरते निष्कुटो गृहवाटिका ॥ ७६० केदारकः कपाटश्च पर्पटो भेषजान्तरे । पिष्टविकृतौ परीष्टिः परीक्षापरिचर्ययोः ॥ ७६१ स्यात्पर्कटी प्लक्षतरौ पूगादेनूतने फले । पिञ्चटस्तु नेत्ररोगे पिञ्चटं त्रपुसीसयोः ॥ ७६२ वर्वटी व्रीहिभिद्रेश्या भीकूटः शैलमीनयोः । भावाटो भावके साधुनिवेशे कामुकेऽपि च ॥ ७६३ मर्कटस्तु कपावर्णनाभे स्त्रीकरणान्तरे । मर्कटी करञ्जभेदे शूकशिम्ब्यथ मोरटम् ॥ ७६४ सप्तरात्रात्परे क्षीरेऽङ्कोष्टपुष्पेक्षुमूलयोः । मोरटा तु मूर्विकायां मोचाटः कृष्णजीरके ॥ ७६५ चन्दने कदलीगर्भे वर्णाटश्चित्रकारिणि । गायने स्त्रीकृताजीवे वरटा हंसयोषिति ॥ ७६६ गन्धोल्यां चाथ विकटः कराले पृथुरम्ययोः । वेकटो जाततारुण्ये मणिकारेऽथ वेरटः॥ ७६७ मिश्रीकृते च नीचे च वेरटं वदरीफले । शैलाटो देवले शुक्लकाचे सिंहकिरातयोः ॥ ७६८ संसृष्टं तु मंगते स्याच्छुद्धे च वमनादिना । अम्बष्ठो विप्रतो वेश्यातनये नीवृदन्तरे ॥ ७६९
१. 'शची' ग-घ. २. 'न्तश्चिद्दे' ख-ग-घ. 'अन्तचिदे मरणचिद्दे' इति टीका. ३. धर्तदीनार. विष' ग-घ. ४. 'पिच्चटे खाद्यभेदे स्याद्विस्तृतावपि । चिरण्टी तु सुवासिन्यां स्याद्वितीयवयःस्त्रियाम् । जकुटं वार्ताकपुष्पे जकुटो मलये शुनि । व्यङ्गटं शिक्यभेदे स्याद्धौताञ्जन्यामाप स्मृतम् ।' ख. ५. 'यमलं युग्मम्' इति टीका. ६. 'स्याच्चैव पिष्टविकृतौ परीक्षा' ग-घ. ७. 'स्यात्पर्पटी' ख; 'स्यात्कर्कटी' ग-घ. 'पृच्यते पर्कटी' इति टीका, ८. 'कावटः कान्तिपुञ्जके । वारुण्डे मकरे पोते भाकूटः' ख. ९. 'भार्याटः पटहाजीवे लोभात्स्वस्त्रीसमपके । भावाट:' ख. १०. 'नटे' ख. ११. 'चीवा वानरी । बीजं च राजकर्कट्या प्राचीनामल. कस्य च । गवेधकाफलं चापि चक्राङ्गी करजान्तरम् । मोरटं त्विक्षुमूले स्यादकोटकुसुमेऽपि च । सप्तरात्रात्परक्षीरे मो. रटा मूर्विका मता। मोचाटः कदलीगर्ने चन्दने कृष्णजीरके । रवटो दक्षिणावर्तशझे जाङ्गलिकेऽपि च । रेवटो मोरटे रेणौ स्याद्वातूलवरायोः । वर्णाटो गायने चित्रकारे स्त्रीकृतजीवने । वरटा हंसयोषायां गन्धोल्यां विकटः पृथौ । कराले सुन्दरे चारे वेकटो जातयौवने । वैकटिके मणिकारे वेरटो मिश्रनीचयोः । वेरटं बदरीफले शैलाटो मृगवैरिणि । शुक्लकाचे किराते च देवले गिरिवारिणि । संसृष्टं' ख. 'म्ब्यां च मोरटम्' ग-घ. १२. 'मूले' ग-घ. १३. 'पृथुले' ग-घ. १४. 'वरटी' ग-घ. १५. 'हर्मटः कच्छपे प्रोक्तः सहस्रकिरणेऽपि च । अम्बष्ठो' ख.
For Private and Personal Use Only

Page Navigation
1 ... 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313