Book Title: Abhidhan Rajendra Kosh Part 06
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1460
________________ वेमाणिय 1436 - अभिधानराजेन्द्रः - भाग 6 वेमाणिय गवानाह--गौतम ! जघन्येनाड्गुलस्यासंख्येयभागम्, अत्र पर आहनन्वगुलासंख्येयभागमात्रक्षेत्रपरिमितोऽवधिः सर्वजघन्यो भवति, सर्वजघन्यश्वावधिस्तिर्यग्मनुष्येष्वेव न शेषेषु / यत आह भाष्यकार: स्वकृतभाष्यटीकायाम्- "उत्कृष्टो मनुष्येष्वेव नान्येषु मनुष्यतिर्यग्योनिष्वेवं जघन्यो नान्येषु शेषाणां मध्यम एवेति' तत्कथमिह सर्वजघन्य उक्तः ? उच्यते- सौधर्मादिदेवानां पारमाविकोऽप्युपपातकालेऽवधि: संभवति स एव कदाचित्सर्वजघन्योऽपि उपपातानन्तरं तु तद्भवजः ततो न कश्चिद्दोषः। आह च जिनभद्रगणिक्षमाश्रमणः- ''वेमाणियाण अंगुलभागमसख जहन्नओ होइ (ओही)। उववाए परभविओ, तत्भवजो होइ तो पुच्छा / / 1 / / ' 'उक्कोसेण' ति एवं यथाऽवधिपदे प्रज्ञापनायां तथा वक्तव्यम, तचैवम्- 'उक्कोसेणं अहे० जाव इमीसे रयणप्पभाए पुढवीए हेडिल्ले चरिमंते' अधस्तनाच्चरमपर्यन्ताद्द्यावदित्यथः 'तिरियं० जाव असंखेजे दीवसमुद्दे उड्ड० जाव सगाई विमाणाई' स्वकीयानि विमानानि स्वकीयविमानस्तूपध्वजादिकं यावदित्यर्थः 'जाणंति पासंति एवं सणंकुमारमाहिंदाऽवि नवरं अहे० जाव दोचाए सक्करप्पभाए पुढवीए हेडिल्ले चरिमंते, एवं बंभलोगलंतगदेवा वि, नवरं अहे० जाव तचाए पुढवीए महासुक्कसहस्सारगदेवा, चउत्थीए पंकप्पभाए पुढवीए हेहिल्ले चरिमंते आणयपाणयआरणचुयदेवा अहे० जाव पंचमीए पुढवीए धूमप्पभाए हेडिल्ले चरिमंते, हेहिममज्झिमगेवेजगदेवा छट्ठीएतमप्पभाए पुढवीए हेडिल्ले चरिमंते, उवरिमगेवेजगा देवा अहे० जावसत्तमाए पुढवीए हेडिल्ले चरिमंते, अणुत्तरोववाइयदेवा णं भंते ! केवइयं खेत्तं ओहिणा जाणंति पासंति, गोयमा ! संभिन्नं, लोगनालिं. पारपूर्ण चतुर्दशरज्ज्वात्मिका लोकनाडीमित्यर्थः 'ओहिणा जाणति पासंति' इति / उक्तञ्च"सक्कीसाणां पढम, दोचं च सणंकुमारमाहिंदा। तचंच बंभलंतग-सुक्कसहस्सारग चउत्थि।।१।। आणयपाणयकप्पे, देवा पासंति पंचमि पुढविं। तं चेव आरणचुय, ओहीनाणेण पासंति // 2 // छलुि हिटिममज्झिम-गविजा सत्तमि च उवरिल्ला। संभिन्नलोगनालिं, पासंति अणुत्तरा देवा / / 3 / / " जी०३ प्रति०२ उ० / (समुद्धातादयः समुद्धातादिशब्देषु) वैमानिकानां वासंस्थानमाहकेवइया णं भंते ! वेमाणियावासा पण्णत्ता ? गोयमा इमीसे णं रयणप्पभाए पुढवीए बहुसमरमणिज्जाओ भूमिभागाओ उर्ल्ड चंदिमसूरियगहगणनक्खत्ततारारूवाणं वीइवइ बहूणि जोयणाणि बहूणिजोयणसयाणि बहूणि जोयणसहस्साणि बहूणि जोयणसयसहस्साणि बहुइओ जोयणकोडीओ बहुइओ जोयणकोडाकोडीओ असंखेन्जाओ जोयण-कोडाकोडीओ उड्ढे दूरं वीइवइत्ता एत्थणं वेमाणियाणं देवाणं सोहम्मीसाणसणंकुमारमाहिंद- | बंभलंतगसुक्कसहस्सारआणयपाणयआरणअचुएसु गेवेजगमणुत्तरेसु य चउरासीई विमाणावाससयसहस्सा सत्तणउई च सहस्सा तेवीसं च विमाणा भवंतीति मक्खाया, ते णं विमाणा अच्चिमालिप्पभा भासरासिवण्णाऽऽभा अरया नीरया णिम्मला वितिगिरा विसुद्धा सव्वरयणामया अच्छा सण्हा घट्ठा मट्ठा णिप्पंका णिक्कं कडच्छाया सप्पभा सस्सरीया सउज्जोया पासाईया दरिसज्जिा अभिरूवा पडिरूवा। (सू०१५०४) 'केवइए' त्यादि रत्नप्रभायाः पृथिव्या 'बहुसमरमणिज्जाओ भूमिभागाओ' ति बहुसमरमणीयस्स भूमिभागस्य ऊर्ध्व-उपरि तथा चन्द्रमसः-सूर्यग्रहणनक्षत्रतारारूपाणि णमित्यलङ्कारे किं ? 'वीइवइत्त' त्तिव्यतिव्रज्य-व्यतिक्रम्येत्यर्थः, तारारूपाणि चेह तारका एवेति, तथाबहूनी' त्यादि, किमित्याह-ऊर्ध्वम्- उपरि दूरमत्यर्थ व्यतिव्रज्य चतुरशीतिविमानलक्षाणि भवन्तीति सम्बन्धः इति मक्खाय' ति इतिएवंप्रकारा, अथवा-यतो भवन्ति तत आख्याताः सर्ववेदिनेति। तेणं' तितानि विमानानि णमिति वाक्यालङ्कारे 'अचिमालिप्पभ' त्ति अर्चिालिः- आदित्यस्तद्वत्प्रभान्ति-शोभन्ते यानि तान्यर्चिालिप्रभाणि, तथा भासाना-प्रकाशानां राशिः-भासराशि:-आदित्यस्तस्य वर्णस्तद्वदाभा-छाया वर्णो येषां केषांचित्तानि भासराशिवर्णाऽऽभानि, तथा 'अरय' त्ति अरजांसि स्वाभाविकरजोरहितत्वात् 'नीरय' त्ति नीरजांसि आगन्तुकर-जोविरहात् 'निम्मल' त्ति निर्मलानि कक्खड' त्ति (कर्कश) मलाभावात् 'वितिमिर' त्ति वितिमिराणि आहार्यान्धकाररहितत्वात् विशुद्धानि स्वाभाविकतमोविरहात्, सकलदोषविरामाद्वा सर्वरत्नमयानि, नदादिदलमयानीत्यर्थः अच्छान्याकाशस्फटिकवत् श्लक्ष्णानि सूक्ष्मस्कन्धमयत्वात् घृष्टानीव धृष्टानि खरशाणया पाषाणप्रतिमेव मृष्टानि सुकुमारशाणया पाषाणप्रतिमेवेति निष्पङ्का कलङ्कविकलत्वात् कर्दमविशेषरहितत्वाद्वा निष्कङ्कटा- निष्कवचा निरावरण निरुपघातेत्यर्थः,छायादीप्तिर्येषां तानि निष्कङ्कटच्छायानि सप्रभाणिप्रभावन्ति समरीचीनिसकिरणानीत्यर्थः सोद्योतानिवस्त्वन्तरप्रकाशनकारीणीत्यर्थः, 'पासाईए' त्यादि प्राग्वत्। स० 150 सम०। चतुर्निकायेषु विमानाधिपतयः सम्यग्दृष्टयो मिथ्यादृष्टयो वेति ? प्रश्नोऽत्रोत्तरं विमानाधिपतितया यो देवविशेष उत्पद्यते स सम्यग्दृष्टिरेव भवति, न कदापि स मिथ्यादृष्टिरित्यनादिकालीना जगद्व्यवस्थितिः, यतो विमानाधिपतितयोत्पद्यमानो देवः "किं मे पुव्वं करणिज ? किं में पृच्छा करणिजं ? किं मे पुव्व सेयं ? किं मे पच्छा सेयं ? किं मे पच्छा सेय किं मे पुव्यं पि पच्छा वि हियाए सुहाए खमाए निस्सेसाए आणुगामिअत्ताए भविस्सइ ? इत्यादिराजप्रश्नीयोक्तशुभाध्यवसायविशेषेण सम्यग्दृष्टिरेवावसीयते, सम्यक्त्वमन्तरेण तथाध्यवसायरूपपरिणामानुत्पत्तेः।न चार्य प्रकारो राजप्रश्नीयाधुपाङ्गे सूर्याभदेयसम्बन्धित्वाचरितानुवादरूपोऽतः कथं सर्वेषामप्यन्यविमानाधिपतित्वेनोत्पद्यमानानां देवविशेषाणामयमेव प्रकार इति शड्कनीयम्, ग्रन्थान्तरे प्रकारान्तरस्यानभिधानाद, अन्येषामपि विमानाधिपतितयोत्पद्यमानानां तथाप्रकारस्यव

Loading...

Page Navigation
1 ... 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490 1491 1492