Book Title: Abhanakajagannatha
Author(s): Jagannatha
Publisher: Jagannath Ambaram

View full book text
Previous | Next

Page 49
________________ [८३-८५] ५२. सुजनता जडता न समं द्वयम् । ५३. सुष्ठु बुद्धा दुष्ठु करोति । ५४. स्वप्ने दशकण्ठं कबलीकुर्वन्ति, जागरितास्तु द्विरेफाय साष्टाङ्गं प्रणिपतन्ति । ५५. स्वप्ने नन्दनं, जागरे क्रन्दनम् । ८४. दर्पणः १. २. ३. ४. ५. ६. ७. ८. आभाणकजगन्नाथः १. अतदपि तदिव व्यदधान्मुकुरः। अपघन ! प्रतिबिम्बसि दर्पणेष्वयि मनो! मम न प्रतिबिम्बसि । आदर्शाद् बहिर्यद् वर्तते तदेवादर्शान्तः प्रतिबिम्ब्यते । दर्पणे दक्षिणो वस्तुतस्तु वामः । द्विपः किं दर्शे प्रतिबिम्ब्यत आदर्शे ? [११०६] मत्तावलोऽपि मुकुरे मुष्टिमेयः । मन्मथम्मन्यमानो मुकुरं मङ्क्षु मोटितवान् । सोऽर्थो वास्तविको यस्यैवादर्शे प्रतिबिम्बनम् । [१११४] ८५. व्यवहारः अदृष्टायां कशायाम् आयुः शतानां शतम् । ८४. २. अपघन ! हे शरीर ! ८४.५ द्विपः गजः । दर्शे अमावास्यायाम् । ८४.६. मत्तावल:- गजः । ८४. ७. मक्षु झटिति । ७६ आभाणकजगन्नाथः [८५-८५] २. अरित्रावलम्बनेन पारावारे परित्राणम् । ३. काण्डमिक्षोर्वीक्षस्व, मा कणिशम् । कोपहीनता पापशून्यता । ४. ५. गुडगणो मरिचकणेन गलहस्तितः । गोप्यं गोपनीयमेव । ६. ७. ८. 8. १०. वैविध्यं चिन्तनानां वैराग्यं वास्तविकम् । ११. शादो हस्ते, स्वादो रसनायाम् । १२. स्वान्ते शान्ततमे दरे च दलिते दण्डोऽपि निःश्रेणिका । १३. हलगताः प्राणाः कुसूले द्रोणाः । [११२७] ८५. २. अरित्रम् - उडुपेषु नोदनार्थमुपयुज्यमानः दण्डाकारः सामग्रीविशेषः । पारावारे समुद्रे । ८५.३. कणिशं सस्यमञ्जरी, सस्योर्ध्वभागः । इक्षोः कणिशं सुन्दरमपि, स्वादहीनम् फलप्रसूतिरहितं च । तत्रावधानं मा बधान, परन्तु, इक्षो काण्डमास्वादयेत्यर्थः । बाह्यैः किं रूपैः, अन्तरङ्गं पश्येत्याकूतम् । ८५. ५. गलहस्तितः- अर्धचन्द्रप्रयोगं लम्भितः । महानपि गुणोऽल्पेन दोषेण नश्यतीति भावः । ८५.७. जिल्हा:- कुटिलमतिभिः । ८५.८. धूनयति- कम्पनपूर्वकं निवारयति । ८५.१०. वैराग्यं लोके विरागो न वैराग्यम्। केवलमेकस्मिन् दर्शनेऽतिसज्जतया जायमाना ये मानसिका दोषास्ते विविधेषु दर्शनविषयेषु कुतूहले सति सुपरिहराः सन्तो वैराग्यं साधयन्तीति ममाभिप्रायः । कथं वाऽत्र मेधाविनो मन्यन्ते । ८५.१२.दरे-भये। ८५.१३.यदि कृषिको हले प्राणान् धत्ते, लक्षणया केदारे श्राम्यति, कुसूले-धान्यसंचयगृहे द्रोणाः परिमाणं परिमातुमर्हा सामग्री कार्यकारिणी भवत्येव । सुभिक्षो भवति सः । जिह्मैरपि युध्यस्व ब्रह्मण्यपि वर्तस्व । मस्तकज्ञानी पुस्तकज्ञानिनं कनिष्ठिकया धूनयति । लोके शुद्धिः परमा सिद्धिः । ७७

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73