Book Title: Aatmsiddhi Shastra In Sanskrit
Author(s): Bechardas Doshi
Publisher: Mansukhlal Mehta Mumbai

View full book text
Previous | Next

Page 14
________________ भावकर्म निजा क्लृप्तिरतश्चेतनरूपता । जीववीर्यस्य स्फूर्तेस्तु लाति कर्मचयं जडम् ॥ ८२ ॥ विषं सुधा न वित्तोऽपि खादकः फलमाप्नुयात् । एवमेव शुभाशुभकर्मणो जीवभोक्तृता ॥ ८३ ॥ एको रङ्कः प्रजापोऽन्यः इत्यादिभेददर्शनम् । कार्य नाकारणं क्वाऽपि वेद्यमेवं शुभाशुभम् ॥८४ ईश्वरः फलदस्तत्राssवश्यको न हि कर्मणि । परिणमेत् स्वभावात् तद् भोगाद् दूरं विनश्यति५ तत्तभोग्यविशेषाणां स्थानं द्रव्यस्वभावता । वार्तेयं गहना शिष्य ! संक्षेपे सर्वथोदिता ॥ ८६ ॥ कर्ता भोक्तास्तु जीवोsपि तस्य मोक्षो न विद्यते । व्यतीतोऽनन्तकः कालस्तथाऽप्यात्मा तु दोषभाक् ८७ शुभकर्मकरो जीवो देवादिपदवीं व्रजेत् । अशुभकर्मकृज्जीवः श्वभ्रं, न क्वाऽप्यकर्मकः ॥८८॥

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22