Book Title: Aaptpariksha
Author(s): Vidyanandswami
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 115
________________ श्रीविद्यानंदिस्वामिविरचिता aaisaरिततत्त्वानि प्रत्यक्षाण्यर्हतोऽजसा । प्रमेयत्वाद्यमास्मादृक् प्रत्यक्षार्थाः सुनिश्चिताः ॥८७॥ कानि पुनरंतरिततत्त्वानि, देशाद्यंतरिततस्त्वानां सत्त्वे प्रमाणाभावात् । नह्यस्मदादिप्रत्यक्षं तत्र प्रमाणं देशकालस्वभावाव्यवहितवस्तुविषयत्वात् । सत्संप्रयोगे पुरुषस्येंद्रियाणां यद्बुद्धिजन्म तत्प्रत्यक्षमिति वचनात् । नाप्यनुमानं तत्र प्रमाणं तदविनाभाविनो लिंगस्याभावात् । नाप्यागमस्तदस्तित्वे प्रमाणं, तस्यापौरुषेयस्य स्वरूपे एव प्रामाण्यसंभवात् । पौरुषेयस्यासर्वज्ञप्रणीतस्य प्रामाण्यासंभवात् । पौरुषेयस्य सर्वज्ञप्रणीतस्य तु सर्वज्ञसाधनात्पूर्वमसिद्धेः । नाप्यर्थापत्तिः देशाद्यंतरिततत्वैर्विनाऽनुपपद्यमानस्य कस्यचिदर्थस्य प्रमाणषट्कप्रसिद्धस्यासंभवात् । नचोपमानमंतरिततत्त्वास्तित्वे प्रमाणं, तत्सदृशस्य कस्यचिदुपमानभूतस्यार्थस्यासिद्धेरुपमेयभूतांतरिततत्त्ववत् । तदुपलंभकप्रमाणपंचकाभावे च कुर्तोऽतरित - तत्त्वानि सिध्येयुर्यतो धर्म्यसिद्धिर्न भवेत् ? धर्मिणश्चासिद्धौ हेतुराश्रयासिद्ध इति केचित् तेऽत्र न परीक्षकाः । केषांचित्स्फटिकाद्यंतरितार्थानामस्मदादिप्रत्यक्षतोऽस्तित्वसिद्धेः परेषां कुड्यादिदेशव्यवहितानामग्न्यादीनां तदविनाभाविनो धूमादिलिंगादनुमानात् कालांतरितानामपि भवि - ष्यतां वृष्ट्यादीनांविशिष्टमेघोन्नतिदर्शनादस्तित्वसिद्धेः । अतीतानां पावकादीनां भस्मादिविशेषदर्शनात्प्रसिद्धेः । स्वभावांतरितानां तु करणशक्त्यादीनामर्थापत्त्यास्तित्वसिद्धेः । धर्मिणामंतरिततत्त्वानां प्रसिद्धत्वाद्धेतोश्वाश्रयासिद्धत्वानुपपत्तेः । नन्वेवं धर्मिसिद्धावपि हेतोश्चाश्रयासिद्धत्वाभावेऽपि पक्षोऽप्रसिद्ध विशेषणः स्यात्, अर्हत्प्रत्यक्षत्वस्य साध्यधर्मस्य क्वचिदप्रसिद्धेरिति न मंतव्यं पुरुषविशेषस्यार्हतः संबद्धवर्तमानार्थेषु प्रत्यक्षत्वप्रवृत्तेरविरोधादर्हत्प्रत्यक्षस्य विशेषणस्य सिद्धौ ११०

Loading...

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146