SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ 14 अहंद्गुणमाला सौरभ:- विशुद्धम्-निर्मलम् / स्वम्-आत्मीयम, स्वीयमिति यावत स्वरूपम्, आत्मतत्त्वमिति यावत् / समधिगतवन्तः-समासादितवन्तः। गणघर: श्रीगौतमस्वामि-प्रमुखगणिनः / परस्मिन्-अन्यस्मिन, आत्मतत्त्वभिन्ने इति यावत अस्मिन्-लोकप्रत्यक्षविषये, पौद्गलिके इति यावत् / रूपे-चक्षुर्मात्रग्राह्यगुणे कामिनी कमनीयत्वादी च / रूपं तु लोकशब्दयोः / पाशावाकारे सौन्दर्य नाण के नाटकादिक / ग्रन्थावृत्ती स्वभावे चे" ति हैमानेकार्थः। खलु-निश्चयैन / क्षणमपि-तदात्मक सूक्ष्मकालविशेषमभिव्याप्यापि / न-नहि। विलसन्ति-शोभन्ते / अमी-मणधरा रूपपतनात्-सौन्दर्यसमासक्तत्वात् / शलभवत् - शलभैः पत गस्तुल्यन्तथा / मृत्युम-मृतिम् / नो-नहिं / अयन्ते-लभन्ते / शलभा यथा रूपमात्राकृप्टा अभ्यरित्र पतन्तो म्रियन्ते न तथा ते कामिनीकमनीयत्वाधाकृष्टा निकृति यान्तीति गावाप्रवरवशिनः, चारुचरितान् तान् आवार्यान् स्तुवे / / 25 // जिनेन्द्राणां वाक्यामृत-हितरसः कर्णकुहरं,. प्रविष्टो येषां ते न खलु गणिनो यन्ति कुगतिम् / प्रगीतः सङ्गीतः क्वचिदपि यथा हन्त हरिणाः, स्तुवे तानाचार्यान प्रवरवशिनश्चारुचरितान् // 26 // सौरभः- जिनेन्द्राणाम्-श्रीमदीश्वर-प्रमुख-जिनेश्वराणाम् / वाक्यामृतहितरस:वचनामपीयूषवदुपकारकरसः / येषाम्-बुद्धिविषयाणां गणिनामिति यावत् / न कुहरम्-श्रवणविवरम् / प्रविष्ट:-प्राविशत् / ते-बुद्धिविषयाः। गणिनः-गणधराः, आचार्या इति यावत् / प्रगीत:-प्रकर्षेण गीतानि-गानकर्मीकृतानि प्रगीतानि तैस्तथा। सङ्गीतः, हरिणा:-मृगाः। तेषां गीतप्रियत्वात् / 'कुरङ्ग मातङ्ग पतङ्ग-भङ्ग-मीना हताः पञ्चभिरेव पञ्च / एकः प्रमादी स कथं न हन्यत यः सेवते पञ्चभिरेव पञ्च / " इति श्रवणात् हरिणानां श्रोग्रेन्द्रियहतत्वमवसेथम् / यथा-इव / क्वचिदपि-कुत्रापि / देशे काले विषये चेत्यर्थः / कुगतिम् दुर्दशाम् / न-नहि / यन्ति-प्राप्नुवन्ति / खलु-निश्चयेन / हन्त-हर्षे / हन्त वाक्यारम्भखेदविस्मयाऽऽमोदसम्भ्रमे" इति मेदिनी। प्रवरवशिनः चारुचरितान् तान् आचाान् स्तुवे // 26 // न यत्र स्यात स्त्रीणां वसतिरथ तिर्यग्गतिमा, म च क्लीबानां वा विदधतितमां तत्र वसतिम् / विशुद्धः स्वाध्यायः प्रभवति यथा ध्यामविसरः, स्तुवे तानाचार्यान् प्रवरवशिनश्चारुचरितान् / / 27 // P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust
SR No.036425
Book TitleChar Granth Sangraha - Panch Parmeshthi Gunmala - Chaturvinshati Jinstutaya - Varnakram Sukti Panchashika - Gautam Swami Charitram
Original Sutra AuthorN/A
AuthorVijaydharmdhurandharsuri
PublisherSyadvadamrut Prakashan Mandir
Publication Year1994
Total Pages145
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size98 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy