________________ पञ्च-परमेष्ठि-गुणमालायाम् /15 सौरमः- यत्र-यस्मिन् स्थले / स्त्रीणाम्-सीमन्तिनीनाम् / “स्त्री योषिदचला योषा नारी सीमन्तिनी वधूः" इत्यमरः / अथ-समुच्चये / “अथ समुच्चये / मङ्गले संशयारम्भाधिकारानन्तरेषु च" इति हैमानेकार्थः / तिर्यग्गतिमत्ताम्तिरश्वाम्, पशुपक्ष्यादीनामिति यावत् / वसतिः-निवासः / न-नहि / स्यात्-भवेत् / वा-अथवा / क्लीवानाम्-नपुंसकानाम्, तृतीयप्रकृतीनामिति यावत् / (वसतिः) न च-न खलु / भवेदिति शेषः / तत्र-तस्मिस्थले। वसतिम्-वासम् / यथाकालमित्यर्थवशसम्पन्नम् / विदधतितमाम्-कुर्वन्ति / यथा-येन प्रकारेण / विशुद्धः अतिनिर्मलः / स्वाध्यायः- अध्यापनादिगा धर्मप्रचारः / ध्यानविसर:-भावनाप्रकरः / प्रभवति-समुपपद्यते / प्रवरवशिनश्चारुचरितान् तान् आचार्यान् / स्तुवे-स्तवीमि / / 27 // असौ बाला बाला युवतिरियमद्यद्गतिमति-. स्तथा मुग्धा-दुग्धालय - कलसपीना पुनरसौ / .. न सुभ्र णामित्थ' विदधति कथा ब्रह्मणि रता स्तुये तानाचार्यान् प्रवरवशिनश्चारुचरितान् // 28 // .. सौरभः- ब्रह्मणि-आत्मनि / रताः-निरताः / मात्मनिरत-चेतस इति यावत् / "असो-इत्थम् / वाला-कुमारी। बाला-लावण्यकान्ति-परिपूरित्तवदना वाला / अर्थान्तरसंक्रमितवाच्यध्वनिः / "कदली कदलीत्यादिवत् / " इयम्-एषा। युवतिः-तरुणी / उद्यद्गतिमतिः-उद्यन्ती गतिर्गमनं दशा च मतिर्बुद्धिश्च यस्याः सा तथा / तथा-किञ्च / मुग्धा-अप्राप्तयौवना / असौ-पुनः। दुग्धालय-कलसपीना-दुग्धस्य-क्षीरस्य आलयो, आधारभूतौ इति यावत् ती चासो कलसौ पयोधरावित्ति यावत् / ताभ्यां पीना, तयोस्तदवच्छेदेन पीना, पीनस्तनीति यावत् / इत्थम्-अनेन - प्रकारेण / सुध्र णाम्-सुष्ठु नवौ नेत्रोपरितनभागौ यासां ताः सुभ्र वः सुनयना - इति यावत् / तासां तथा / कथाः-गोष्ठी: विचारणा इति यावत् / न-नहि / विदधति-कुर्वन्ति / प्रवरवशिनः चारुचरितान्, तान्, आचार्यान् स्तुचे-स्तवीमि // 28 // निविष्टा यद्देशे क्षणमपि मृगाक्षी तदवनों , श्रयन्ते नो स्थित्या जितमनसिजा जातुचिदपि / अणूनां सञ्चारादत्तिरुदयते तत्र कृतिनः, स्तुवे तानाचार्यान् प्रवरवशिनश्चारुचरितान् / / 29 / / सौरभः- यद्देशे-यस्मिन् प्रदेशे, यत्स्थानावच्छेदेनेति यावत् / क्षणमपि THRITTETTETTTTTTTTI 1- "इतीत्थं नो स्त्रीणां" इति पाठान्तरम् / P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust