SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ ४/अर्हद्गुणमाला चूलावेगं गुरुगममणी - सङ कुलं दूरपारं, सारं वीरागमजलनिधि सादरं साधु सेवे ।।इति // क्रमान्दोलत्पीठम्-क्रमाभ्यां चरणाभ्यामान्दोलन्तः परिचलन्तः पीठाः फलका यत्र तत्तथा / " चरणः क्रमणः पादः पदोऽह्रिश्चलनः क्रमः" ।३।२८०॥इत्यभिधानचिन्तामणिः / सुकृत-जननम्-पुण्योत्पादकम् / दिव्यनमन म्-दिव्यानां दिविभवानां नमनं प्रणिपातो यत्र तत्तथा // 5 // सहस्रादित्यानां समुदितविभातोऽप्यतिशया, प्रभा ते वाहन ! विलसतितरां निर्मलतरा / न लोका लोकन्तेऽमहसमथवाऽत्यन्त - महसं , विभात्येतन्मत्वा सुररचित - भामण्डलमिदम् // 6 // सौरभ:- वहिन् ? सर्वलोकातिशय-प्रशस्य जिनेश्वर ! सहस्रादित्यानाम्-दशशतसंख्यकदिवाकराणाम् / समुदितविभातः / एकत्रीभूतप्रभातः / अपिखलु / अतिशया अधिका। निर्मलतरा-अतिनिर्मला / ते-श्रीमतो भवतः / प्रभाकान्तिः / विलसतितराम्-संशोभते / लोका:-जनाः। अमहसम्-नास्ति महस्तेजो यस्मिस्तं तथा / अथवा / अत्यन्तमहसम्-सुमहत्प्रतापम् / 'महस्तूत्सव-तेजसोः'' इति मेदिनी / पदार्थ जनं-वेति शेषः / न-नहि / लोकन्ते-द्रष्टुं न शक्नुवन्तीति भावः / एतत्-इदम् / मत्वा-अवधार्य / इदम्-प्रत्यक्ष दृश्यम् / सुररचित-भामण्डलम् - देवविनिर्मितप्रभामण्डलम् / विभाति-दीप्यते। समधिकतेजसं श्रीमत भवन्तं द्रष्टुमशक्नुवतामनुग्रहाय-देवै रचितं भामण्डलमिदं शोभते इति सारांशः // 6 // अनादेरज्ञानान्निखिलजनता - निद्रिततमा, .. तमस्तस्या हर्त रविरुदयति श्रीजिनवरः। तदायानां ज्ञप्त्यं श्रवणमधुरः पूरितनभाः, पुरस्तादुच्चस्तात् प्रसरणपरो दुन्दुभिरवः / / 7 // सौरभः- अनादिकालप्रवाह-पतितात् / अज्ञानात्-अविद्यातः / निद्रिततमा-अत्यन्तं निद्रिता / तस्याः-जनतायाः / तमः-अज्ञानम् / हर्तुम्-विनाशयितुम् / श्रीजिनवरः-श्रीमदहन् / रविः- सूय्यंः / उदयति-प्रकाशते / तदायानां जप्त्य-श्रीजिनेश्वर-दिनक राऽऽगमन-निवेदनाय / श्रवणमधुरः-कर्णसुखकरः / पुरस्तात्-अग्रतः / उच्चस्तात्-उपरि / प्रसरणपरः-प्रसरणशीलः / पूरितनभाः - परिपूरिताकाशः / दुन्दुभिरवः-बुन्दुध्विानः / प्रादुर्भवतीति शेषः / / 7 // P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust
SR No.036425
Book TitleChar Granth Sangraha - Panch Parmeshthi Gunmala - Chaturvinshati Jinstutaya - Varnakram Sukti Panchashika - Gautam Swami Charitram
Original Sutra AuthorN/A
AuthorVijaydharmdhurandharsuri
PublisherSyadvadamrut Prakashan Mandir
Publication Year1994
Total Pages145
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size98 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy