________________ श्रीगौतम-स्वामि-चर्चा (18) यशो रक्षणार्थ करिष्येऽधना किं, यदीहागतो नाभविष्यं तदा किम् / मनो यस्य सन्देहदोलाधिरूढं, नमो गौतमस्वामिने मंगलाय // यदि स्याज्जयोऽत्रापि मे भाग्यतस्तत, समग्रऽथ विश्वेऽद्वितीयो भवेयम् / विचार्यत्यमग्रे गतः सालमध्ये, नमो गौतमस्वामिने मंगलाय // (20) तदा स्वर्णसोपानपंक्तिस्थितो यो, महावीरवीरेण धीरेण प्रेम्णा। समाभाषितो नामगोत्रेण पूर्व, नमो गौतमस्वाभिने मंगलाय // (21) इदं नाद्भुतं नाम जानाति मेऽयं, यतो विश्वविख्यातमाख्यं मदीयम् / हदीत्थं महामोहतो (मानतो) यो मुमोद, नमो गौतमस्वामिने मंगलाय // (22) . परं संशयं मे वदेद् गुप्तगुप्तं, हृदिस्थं तदाऽर्हन्नयं निविवादम् / स्थितो यः करोति प्रभूतान विकल्पान्, नमो गौतमस्वामिने मंगलाय // (23) तदोक्तं जिनेशेन भो इन्द्रभूते ? कथं जीवसत्वेऽस्ति ते संशयोऽयम् / तदाऽनम्रभूतोऽपि नम्रोऽभवद् यो, नमो गौतमस्वामिने मंगलाय // (24) ग़भीरेण घोषेण वेदोक्तसूक्तजिनेशेन संस्फोटितः संशयोऽस्य / बभूवाद्यशिष्यः प्रभोर्यस्तदाऽरं, नमो. गौतमस्वामिने मंगलाय // (25) नभो - बाण-संख्ये वयोवत्सरे श्रीमहावीरतीर्थेश्वराने गृहीत्वा / विशुद्ध महासंयमं येन चीर्ण, नमो गौतमस्वामिने मंगलाय // - (26) यदोयान सर्वे क्रमेणास्तेऽनजाद्याः श्रुतौ संशयं सन्दधानाः / >> प्रभावक्यितो दीक्षिता यत्प्रभावान नमो गौतमस्वामिने मंगलाय // P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust