________________ 2/ श्रीगौतम-स्वामि-चरित्रम् (9) अपापाभिधायां नगर्यां समेताः, समे यज्ञमाकर्तुमाज्ञां दधानाः / यदीयां विदेशात् स्वदेशाच्च लोका, नमो गौतमस्वामिने मंगलाय // (10) यदा वेदसूक्तविधि यज्ञसत्कं, प्रसन्नेन चित्तन कुर्वन स्थितो यः / तदा तस्य शब्देन सर्वे ररन्जुर्नर्नमो गौतमस्वामिने मंगलाय // (11) इतः श्रीमहावीरनामा जिनेशः, समालोकितालोकलोको यदीयात् / सुभाग्यावपापां पुरीमाश्रितो वै, नमो गौतमस्वामिने मंगलाय // प्रभोराति सज्जनेभ्यो विवेद्याखिलानुत्तमान् सद्गुणानाकलद् यः / परं तन्न सेहे मदोन्मादमत्तो, नमो गौतमस्वामिने : मंगलाय // . (13) प्रभोः सेवनायै समेताः समेषां, सुराणां समूहाः समुत्साहयुक्ताः / तदाऽऽयान्ति ते स्वान्तिकं योऽनुमेने, नमो गौतमस्वामिने मंगलाय // (14) . यदा नागताः स्वीय-पार्वे सुशस्ते, तदा खिन्नता विकल्पांश्चकार / महाधूर्त-धूर्तोऽयमित्थं य ऊहे, नमो गौतमस्वामिने मंगलाय // अमष्मिन जने जीवतीह प्रवादी, ह्ययं कोऽस्ति सर्वज्ञमानी विवादी। इतीत्थं मनो यस्य संजातमुन, नमो गौतमस्वामिने मंगलाय // क्षणं नो सहे गर्वमद्याहमित्थं, विचार्याचलत् सर्वशिष्यवृतो यः। निजैर्बन्धुभिर्वार्यमाणोऽपि शीघ, नमो गौतमस्वामिने मंगलाय // (17) क्रमेणागतो जीवजातानुकले, प्रभो रम्यसन्देशना - स्थानमले / समीक्ष्यैव दूराद् गतो विस्मयं यो, नमो गौतमस्वामिने मंगलाय // . P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust