________________ -श्रीगौतमस्वामिने नमः -वर्णक्रम-सूक्ति-पंचाशिका अहं नमामि सर्वेषां, 7. मन्त्राणां मन्त्रमुत्तमम् / सुवर्णमिव धातूनां, .... मेरुमिव महीभृताम् // 1 // आलोक एव नन्दन्ति, सज्जना न तु दुर्जनाः / अभ्युद्यते सहस्रांशौ, फुल्लन्त्यब्जा न कौशिकाः (1) // 2 // इङ्गितेनावगच्छन्ति, भावं प्राज्ञा जडा नहि / 9 प्रग्रहचालनादेव, चलन्त्यश्वा न गर्दभाः // 3 // ईश्वरपूजको नित्यमैश्वर्यमेति शाश्वतम् / दारिद्रयं किं भजेच्चिन्ता-रत्नाराधनतत्परः // 4 // उद्यमी सर्वकार्याणां, केवलोऽपि प्रसाधकः / तमो हन्ति नभःपारं, यात्येकोऽपि दिवाकरः ॥श। ऊवं गच्छन्ति निष्पापा, लघुतां न त्यजन्ति ये / पङ्कहीनं यथा तुम्बं, यात्यूर्ध्वं त्वरितं जले // 6 // ऋजुरेवार्जवं याति, वक्रो गच्छति वक्रताम् / वेत्रयष्टिस्तथा वंश-मूलमत्र निदर्शनम् // 7 // ऋकारस्येव दैर्घ्य ये, न विमुञ्चन्ति सर्वदा / पदानां वा सुशब्दानामादौ तिष्ठन्ति ते क्वचित् // 8 // 1- तामसाः / इति पाठान्तरम् P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust