________________
३२
दामोदरगुप्तविरचितं
ईषदयत्नप्रकटितकक्षोदरबाहुमूलकुचयुगलम् । संदर्य झटिति यास्यसि नायकदृग्गोचरात्तूर्णम् ॥ १४० ॥ ___ अथ पर्यडुसनाथं दीपोज्ज्वलकुसुमधूपगन्धाढ्यम् । विततवितानकरम्यं प्रवेशितो वासकागारम् ॥ १.४१ ॥ मात्रा ते गुरुजघने सादरमवतारणादिकं कृत्वा । अभिनन्दनीय एभिर्वचनविशेषैः प्रयत्नेन ॥ १४२ ॥
(युगलकम् ) 'अद्याशिषः समृद्धाः, परितुष्टा इष्टदेवता अद्य । कल्याणालंकारो यदलंकृतवानिदं वेश्म ॥ १४३ ॥ अनुरूपपात्रघटनं कुर्वाणस्याद्य कुसुमबाणस्य । सुचिराद्धत संजातः शरासनाकर्षणश्रमः सफलः ॥ १४४ ॥ विन्यस्य शिरसि चरणं सुभगा गणिकाजनस्य सकलस्य । सौभाग्यवैजयन्ती सम्प्रति वत्सा समुत्क्षिपतु ॥ १४५ ॥ दुहितर एव श्लाघ्यो धिग्लोकं पुत्रजन्मसंतुष्टम् ।
जामातर आप्यन्ते भवादृशा यदभिसम्बन्धात् ॥ १४६ ॥ ॥ १३९ ॥ [ ईषत् रागवर्धनार्थम् । अयत्नं अनिच्छितमिव । ] ' युगलान्तम् ' प्राण्यङ्गत्वात् एकवद्भावः । १४० ॥ [इतः तन्मातृकार्यमाह अथेति । ] [वितानकं उल्लोचः 'चंदरवा ' इति भाषायाम्। वासकागारं वासगृह रतालयम् , “ भोगावासो वासगृहम् ।" इति हारावली । ] ॥ १४१ ॥ [ माता जननी, यद्वा मातृस्थानीया वृद्धा समयमातृका । ] अवतारणादिकं [ अर्चनादि, ] स्वागतविधानलोककुदृष्टयवरोधकनीराजनादिकरणम् ॥ १४२ ॥ कल्याणालङ्कारः मङ्गलस्यापि कान्तिदायकः । ] अलंकृतवान् [ स्वागमनेन शोभितवान् , ] समागत इत्यर्थः ॥ १४३ ॥ [अनुरूपपात्रेण योग्यभाजनेन, घटनं संयोजनम् । ] ॥ १४४ ॥ [" सर्वोन्नतत्वं सौभाग्यं तद्वान् सुभग उच्यते । ” इति दिवाकरः, स्त्री सुभगा। ] वैजयन्तीं पताकां, समुत्क्षिपतु समुल्लासयतु; सर्वेष्वपि गणिकागणेषु सौभाग्यभाजनं भवतु इत्यर्थः ॥ १४५ ॥ [अत्र
१४०. प्रकटं क (प)। कुचभागम् (प. कापा)। गोचरा तूर्णम् ( कापा) १४१ वासकावासम् (प. कापा) १४३ निमं देशम् (गो २) १४४. घटनां (प. कापा)। अचिरात् (कापा)। सनस्य श्रमः (कापा) १४६. जनन (गो २)। परितुष्टम् ( कापा)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com