SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ कुट्टनीमतम् । चन्द्रमसेव ज्योत्स्ना, कंसासुरवैरिणेव वनमाला | कुसुमशरासनलतिका कुसुमाकरवल्लभेनेव ।। १३५ ॥ मदलीला हलिनेव, स्तनयुगलेनेव हारलता । रम्याऽपि सा सुगात्री रम्यतरा भवतु सङ्गता भवता ।।' १३६ ।। ( युग्मम् ) किं बहुना, यदि यूनामुपरि विधातुं समीह से चरणम् । तत्कुरु रमणीरत्नं प्रेमोज्ज्वलमङ्कतस्तूर्णम् ॥ १३७ ॥ अथ तद्वचनश्रवणमविजृम्भितमदनभट्टदायादः । उपचरणीयः सुन्दरि निजवसतिमुपागतस्त्वयाऽप्येवम् ॥ १३८ ॥ दूरादभ्युत्थानं, प्रणमनमा॑त्मासनप्रदानं च । प्रविधेयमञ्चलेन प्रस्फोटनमा युगलस्य ।। १३९ ॥ ३१ 9 , आक्षेपरूपकदृष्टान्तालंकाराणां समुच्चय: । ] ॥ १३४ ॥ [ एवं सामादि उपायत्रयं प्रयुज्य बहूपमासङ्गताशीरलंकारेण युग्ममाह चन्द्रेति । ज्योत्स्ना चन्द्रिका । कंसासुरखैरी कृष्णः । वनमाला “आपादपद्मं या माला वनमालेति सा मता । " इति यद्वा " पत्रपुष्पमयी माला ‘वनमाला प्रकीर्तिता । ” इति सा च कृष्णवक्षसि नित्यं वर्तते । ] कुसुमाकर वल्लभः [ वसन्तप्रियः ] कामः || १३५ || हली बलरामः ॥ १३६ ॥ [ उपसंहरति ] किमिति । मालतीप्रीतिपात्रतया निखिलतरुणमण्डलीशेखरीभवितुं यदि वाञ्छसि इत्यर्थः । [ रमणीरत्नं सुन्दरीषु श्रेष्ठा, "जातौ जातौ यदुत्कृष्टं तद्रत्नमभिधीयते " । इति उक्तेः । तथा च वराहमिहिरः–“स्त्रीणां गुणा यौवनरूपवेषदाक्षिण्यविज्ञानविलासपूर्वाः । स्त्रीरत्नसञ्ज्ञा च गुणान्वितासु, स्त्रीव्याधयोऽन्याश्चतुरस्य पुंसः || ” ( बृहत्संहितायां ७७ । १३) इति । ] अङ्कतः अङ्के [ सार्वविभक्तिक: तसिल् । ] तूर्णम् शीघ्रम् ॥ १३७ ॥ अथ इति । तस्या वचनश्रवणेन, प्रविजृम्भितः उद्दीपितो, मदनो यस्य सः; भट्टस्य दायादः [ दायं पैतृकं धनं आदत्ते इति दायादः ] सुतः । उपचरणीयः स्वागतादिविधानेन सेव्यः ॥१३८॥ [ वशीकार्यस्य गृहागमनं शुश्रूषाप्रकारं युग्मेनोपदिशति दूरादिति । ] उपचारानेव दर्शयति दूरात् इत्यादि । [ अञ्चलेन परिहितवस्त्रप्रान्तेन । ] प्रस्फोटनं प्रोज्छनम् १३६. हारलतिका च ( कापा ) । साधुगात्री ( कापा ) १३७. प्रेमोज्ज्वलसंगतं का ) १३८. श्रवणात् परिचुम्बितमदन ( कापा ) । सुस्तनि ( गो २) Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034538
Book TitleKuttanimatam
Original Sutra AuthorN/A
AuthorDamodar Guptakavi, Sukhram Sharma
PublisherDharmsukhram
Publication Year1924
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy