SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ कुटनीमतम् । अद्य जननी प्रसूता, सौभाग्यगुणोदयोऽद्य निष्णातः । त्वयि वितरति सस्नेहं निरामयप्रश्नभारती तस्याः ॥ १०४९ ॥ (सन्दानितकम् ) उत्कलिकाकुलमनसामुद्रिक्तरिरंसयाऽभिभूतानाम् । औदासीन्यं भजतां समागता भवति नालिका यूनाम् ॥१०५०॥ पृच्छां अभिनंदति श्रीमन्नित्यादिना । श्रीमन् लक्ष्मीधर सुभग । अद्येत्याद्याः पञ्च प्रहर्षगर्भाः उक्तयः । अद्य अस्मिन् दिने, अशेषाः निखिलाः, गुरुजनानां मातृपित्रादिकुलवृद्धानां, आशिषः शुभाशंसनवचनानि प्रसन्नदेवताविषयस्वाभिमताभ्यर्थ. नामयानि, श्रेय: कल्याणं तत्प्राप्तिरित्यर्थः, तेन संपत्राः अर्थात् सफलाः जाताः । अद्य भगवान् कामदेवः प्रसन्नः सन्तुष्ट: प्रसादसुभगो वा जातः । भाग्यानां शुभकर्मणां चयैः संचितैः समूहैः, अद्य फलतः फलस्वरूपेण इत्यर्थः, परिणतं प्रारब्धक्रियमाणकर्मविलक्षणानां संचितसुकृतानां फलं अद्य प्राप्तं इति भावः ॥१०४८ ।। अद्य, जननी जनयति इति जननी माता, प्रसूता यथार्थप्रसववती जाता, प्रसवस्य पुत्र्याः अभ्युदयेन इति तात्पर्य, इयं च लोकोक्तिः । अद्य च सौभाग्यगुणस्य नानाविधैश्वर्यवत्त्वस्य, ध्यः आविर्भावः, निष्णातः संपन्नः। अद्य सुदिनं पुण्याहं उत्सवो वा इत्येषां पञ्चवाक्यानां तात्पर्यम् । कुत एतदित्याह त्वयीति । त्वयि सस्नेहं स्नेहपूर्वकं, तस्याः निरामय आरोग्यं तस्य प्रश्नः पृच्छा तद्रूपा भारती वाणी तां, वितरति दातरि सति, त्वया तस्याः अनामयप्रभेन बहुमानप्रदर्शनात् इति भावः । आशिषां श्रेयःसंपन्नत्वादिभिः तत्कार्य आनंदो लभ्यते, स च तस्याः विरहज्वररूपस्य तपसः इष्टप्राप्त्या साफल्यात्, तच्च तव अनामयप्रभेन अनुमीयते इति भाव: ॥ १०४९ ॥ स्वनिर्गमं उपक्रमते उत्कलिकेति । उत्कलिका उत्कण्ठा । उद्रिक्ता स्फुटा स्पष्टा ओष्ठस्फुरणादिलिंगैः, या रिरंसा चुंबनालिंगनादिभिः रन्तुं इच्छा, तया अभिभूतानां व्याकुलामां विहलानां अत: प्रबलसुरतेच्छावतां, तथापि संनिधौ तृतीयस्य सत्त्वात् औदासीन्यं कर्तव्ये अनुद्योगं भजतां सेवमानानां, यूनां युवत्यश्च युवानश्च यूनः इत्येकशेषः तेषां यूनां, समागता संप्राप्ता, मादृशी इति भावः, नालिकानल एव नालः तृणविशेषः स भोक्तव्येन अस्ति अस्येति नालिकः महिषः साध्यवसानगौणीलक्षणया च मूर्खः इत्यर्थः, " नालिक: मूर्ख: " इति काव्यालंकारटीकायां(१०।६) नमिसाधुः, स: स्त्री नालिका मूर्खा, भवति, यथोक्तं-" न प्रेम नव्यं सहतेऽन्तरायम्।" (विद्धशाल०३१५ ) इति; (अन्तरायं विघ्नम् ) । अपि चोक्तं ब्रह्मवैवर्ते गणपतिखंडे (६५५)-" रहस्थलनियुक्तश्च न दृश्यः स्त्रीयुतः पुमान् ॥ श्रीसंसक्तं च पुरुषं यः Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034538
Book TitleKuttanimatam
Original Sutra AuthorN/A
AuthorDamodar Guptakavi, Sukhram Sharma
PublisherDharmsukhram
Publication Year1924
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy