SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ कुट्टनीमतम् । वहति जवेन तुरङ्गे निबिडस्थितपादकटकपादाग्रः । तिर्यक्प्रणिहितकायो निम्नोन्नतमग्रतो भुवः पश्यन् ॥ ९५२ ॥ यावत्माणं धावत्याकुलिते विश्वकद्रुभिर्भीत्या | गोचरपतिते जीवे लघुक्रियः क्षिपति मार्गणं धन्यः ॥ ९५३ ॥ ( संदानितकम् ) " " चलं चंचलं यत् लक्ष्यं वेधनीयं पश्वादिरूपं, तस्य वेधने शरादिना भेदने, कौशलं निपुणत्वं भवति, तच्च प्रशस्तं यथोक्तं अभिज्ञानशाकुन्तले - " उत्कर्षः स च धन्विनां यदिषवः सिध्यति लक्ष्ये चले ।” ( २/५ ) इति । अश्वस्य आरोहण विषयभूतहयस्य, प्रजवे अतिद्रुतगतौ, अपि, स्थिरस्य निश्चलस्य आसनस्य उपवेशनस्य, अभ्यसनं अभ्यासः, लक्षणया तजा सिद्धि:, अर्थात् अतिवेगेन धावमानेऽपि अ तस्मात् च्युतिर्न जायते । तथा भूमेः पृथिव्याः विभागाः क्षेत्रारण्यनदीपर्वतप्रदेशादयः तेषां ज्ञानं च भवति, मृगानुसरणे अटवीप्रदेशज्ञानस्य अपेक्षितत्वात् । मृगयागुणा: अनूदिताः कामंदकीये नीतिसारे - " जितश्रमत्वं व्यायाम आममेदः कफक्षयः । चलस्थिरेषु लक्ष्येषु बाणसिद्धिरनुत्तमा । मृगयायां गुणानेतानन्ये प्राहुः । " (१५/२६२७ ) इति ॥ ९५१ ॥ मृगयाविनोदे लघुक्रियस्यैव उत्कर्षात् षङ्गिः तस्य विविधप्रकारान् वर्णयति । तत्रादौ युग्मेन स्वभावोक्त्यलंकारद्वारा मृगयाकुशलं प्रशंसति वहतीत्यादिना । जवेन वेगेन, तुरंगे तुरं त्वरितं गच्छति इति तुरंगः तस्मिन् अश्वे, वहति धावति, निबिडं दृढतया स्थितौ ] पादकटकयोः चरणाधारवलययोः [ 'पेंगडा' इति भाषायां प्रसिद्धयोः, सप्तमी, पादयोः अग्रभागौ यस्य सः । धावमानस्य अश्वस्य उपरि उपवेशने कायस्य तिर्यक्त्वं स्वभावः । तथा वहति अश्वे प्रस्खलनरक्षार्थ, अग्रतः पुरस्तात्, भुवः निम्नोन्नतं गर्तादिकं निम्नं प्रस्तरादिना उच्चं प्रदेशं पश्यन् निरीक्षमाणः मृगयारसिकः ॥ ९५२ ॥ यावत्प्राणं प्राणं मर्यादीकृत्य यावत्प्राणं पूर्णत्रलेन, प्राणा असुष्व प्राणे वातेऽप्यनिले बले । काव्यजीवे च बोले च, प्राणं तु त्रिषु पूरिते ॥ " इति विश्वलोचन:, ( बोलं ' वोलं 'स्वनामख्यातवणिद्रव्यं गन्धरसाख्यं,) धावति वेगेन प्रयाति तथा विश्वकद्रुभिः मृगयोपयुक्तश्वभिः, “विश्वकद्रुः खले ध्याने स्यादाखेटिककुक्कुरे ।" इति विश्वलोचनः भीत्या भयेन, आकुलिते परवशीकृते, एतादृशे जीवे प्राणिनि पशौ, लघ्वी क्षिप्रा क्रिया शारादिक्षेपरूपा यस्य सः लघुक्रियः, धन्यः श्लाघ्यः कृतार्थो वा, मार्गणं शरं " मार्ग "" ९५२ तिर्यक्परिणतकायो ( प. स्तं ) । भुवं ( प. स्तं ) ३८१ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034538
Book TitleKuttanimatam
Original Sutra AuthorN/A
AuthorDamodar Guptakavi, Sukhram Sharma
PublisherDharmsukhram
Publication Year1924
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy