________________
दामोदरगुप्तविरचितं
"
'संग्रामादनपसृतिः प्रेक्षाभिज्ञा सुभाषिताभिरतिः । आच्छोदनाभियोगः कुलविद्या राजपुत्राणाम् ॥' ९४९ ॥ एतद्वस्तुनि याते श्रुतिमार्गे नृपतिनन्दनो रसतः । आरब्धकथा च्छेदकमाखेटकवर्णनं चक्रे ।। ९५० ॥ * ' चललक्ष्यवेधकौशलमश्व प्रजवे स्थिरासनाभ्यसनम् । भूमिविभागज्ञानं भवन्ति मृगयाभियोगेन ।। ९५१ ॥ प्रवर्तितचित्तः चासौ नृपतनयश्च समरभटः तस्मिन् सति, अन्यः कोऽपि पुरुषः, प्रसंगेन स्मृतस्य उपेक्षानर्हत्वं प्रसंग: तेन, स्मृतां आर्या वक्ष्यमाणां, पठति स्म पपाठ ॥ ९४८ ॥ तामेवार्थी पठति संग्रामादिति । संग्रामात् युद्धात् अनपसृतिः अपलायनम् । प्रेक्षाभिज्ञा प्रेक्षाया: नाट्यस्य अभिज्ञा दर्शनेन ज्ञानम् उक्तं च भरतेन - "न तच्छ्रुतं न तच्छिल्पं न सा विद्या न सा कला । नासौ योगो न तत्कर्म यन्नाट्येऽस्मिन्न ॥ " इति । सुभाषितेषु साधुभाषणेषु हितवचनेषु रमणीयार्थप्रतिपादक काव्यादिषु वा अभिरति: व्यसनम् । आच्छोदनाभियोग: ] आच्छोदनं मृगया, [ "आच्छोदनं मृगव्यं स्यादाखेटो मृगया स्त्रियाम् । ” इति अमरः, तत्र अभियोग: अभ्यास: अभिनिवेशो वा दृष्टशौर्यबलादिवृद्धिगुणत्वात्, तथा च शुक्रनीतौ - "शौर्य प्रवर्धते नित्यं लक्ष्यसंधान साधनम् | अकातरत्वं शस्त्रास्त्रशीघ्रपातनकारिता ॥ मृगयायां गुणा एते ” ( १|३३३–३३४ ) इति । अमी, राजपुत्राणां क्षत्रियजातीयानां कुलविद्याः कुलस्य वंशपरंपराया: गृहस्य वा विद्या: । राजपुत्राणां उक्तेषु युद्धादिचतुर्षु सहजं ज्ञानं अभिरतिश्च इति भावः ॥ ९४९ ॥ एतच्छ्रवणफलमाह एतदिति । एतस्या: आर्यायाः वस्तुनि तात्पर्यार्थे, श्रुतिमार्ग याते श्रुते, नृपतिनंदनः राजपुत्रः समरभटः, आरब्धायाः प्रस्तुतायाः कथायाः वार्तायाः नाट्यसंबंधिन्याः इति भावः, च्छेदकं विरामकारकं, आखेटकस्य मृगयायाः वर्णनं, रसतः प्रीत्या, चक्रे । आर्याश्रवणानंतरं सः नाट्यकथां त्यक्त्वा मृगयावर्णने प्रवृत्तोऽभूदिति भावः ॥ ॥ ९५० ॥ इतः सप्तभिः तदेव वनविहारविशेषमृगयावर्णनं भयानकरसगर्भमाह चलेत्यादिभिः । तत्रादौ मृगयालाभान् कथयति चलेति । मृगयाभियोगेन तदभ्यासात्,
1
३८०
९४९ 'भिज्ञा सुभावना' ( गो २ का ) । आच्छोटना (प. स्तं. का) ९५० रभसात् (का) । च्छेदनमा ( प. स्तं) । आरभ्य कथा च्छेदकमाखेटं वा इत्यंतिमा पंक्तिः कां.संपादकैः प्राप्तपुस्तकयोः। * इतः गो. प. स्तं. संज्ञितानि पुस्तकानि अवलम्ब्य पाठः समाप्तिं यावत् ९५१ स्थिराभ्यसनं ( गो ) [ न्यूनार्थः पाठः ]
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com