________________
२९४
दामोदरगुप्तविरचितं
66
रुज्जीवनावधौ ॥ विरहः करुणोऽन्यस्य संगमाशानिवर्तनः । करुणभ्रमकारित्वात् सोऽयं करुण उच्यते ॥ ” इति । स च यथा - कादंबर्या महाश्वेतायाः, आदौ तत्र पुंडरीकस्य नाशात् शुद्धकरुणरसविषयत्वेऽपि अशरीरिण्या वाण्या संगमप्रत्याशया रत्युद्भवेन शोकस्थायिभावस्य संचारिभावे परिणमनात् । कर्णभूषणकारस्तु ( ५/५५ ) महाश्वे - तापुंडरीकवृत्तान्तं शुद्धकरुणरसं मनुते, तद्रतेः विप्रलंभस्थायित्वेन अनुद्भासनात्, तत्, तथा रसरत्नहारे शोकजः करुणो रसः " अनिष्टावाप्ते रत्नावल्यां सागरिकाचंधने” उदाहृतः सोऽपि पूर्वोक्तमतानुसारेण करुणविप्रलंभ एव भवति; भरतमतानुसारेण तु न विरोधः, तथाहि भरत:- " इष्टजनस्य विनाशात् शापाक्रोशाच्च बन्धनाद्व्यसनात् । एतैरर्थविशेषैः करुणाख्यरसः समुद्भवति ॥ " इति ॥ तन्मतानुसारिणः तु विप्रलंभभेदं करुणं नैव स्वीकुर्वति, उभयालंबनस्य तस्य (करुणविप्रलंभस्य ) एकत्रैव असंभवात् । तन्न । तथाहि काव्यालंकारटीकायां नमिसाधु केचिद्धि करुणरसे एव विप्रलंभभेदं करुणमन्तर्भावयंति, तदसत्, वैलक्षण्यात् । शुद्धे हि करुणे शृंगारस्पर्श एव न विद्यते, करुणविप्रलंभस्तु शृंगार एव । " इति । उक्तं च शृंगारतिलककारेणापि - 'यत्रैकस्मिन् विपन्नेऽन्यो मृतकल्पोऽपि तद्गतम् । नायकः प्रपेत्प्रेम्णा करुणोऽसौ स्मृतो यथा ॥ ६० ॥ ( करुणः करुणविप्रलंभ: । ) केषांचित्करुणभ्रांतिः कारुण्यादत्र जायते । एतस्य मिथुनावस्थां विस्मृत्य रतिमूलजाम् ॥ ६२ ॥ स्त्रीपुंसयोर्भवेदेष सापेक्ष: संगमे पुनः । शृंगारवचनप्रायः, करुणः स्यात्स चान्यथा ॥ ६३ ॥ (अत्र तस्य द्वैविध्य मुक्तम् | अन्यथा निरपेक्षः इति भावः । ) तस्माच्छृंगार एवायं करुणेनानुमोदितः । सौंदर्यं नितरां धत्ते निबद्धो विरलं बुधैः " ॥ ६४ ॥ इति ( २ परि० ) ( अयं निरपेक्षः करुणविप्रलंभः । ) एतन्मते यत्र स्त्रीपुंसयोः एकस्य मरणात् निरवधिः विरहः तत्रापि करुणविप्रलंभ एव रसः, तत्र शृंगार बीजभूतायाः रत्याः प्राधान्येन अस्तित्वात् । यत्र च शृंगाररतिभावरहितानां प्रियाणां धनसंबंध्यादिपदार्थानां नाशात् शोकः तत्र शुद्धः करुणरस: । एतदपि स्पष्टीकृतं शृंगारतिलके, तथाहि तत्र ( ३५ ) करुणरसलक्षणं–“ शोकात्मा करुणो ज्ञेयः प्रियभृत्यधनक्षयात् । तत्रेत्थं नायको दैवहतः स्याद्दुःखभाजनम् ॥ " इति । ( प्रियाः ये भृत्यादयः । ) उभयोः समानेऽपि शापादिविभावे चिंताद्यनुभावे च रतिसत्त्वविच्छेदाभ्यां भेदः इति अवगंतव्यम् ॥ एवं उत्तररामचरितस्य (३) छायांके शृंगारतिलक - काव्यालंकारादिमतेन करुणविप्रलंभ एव रसः, नतु करुणः रसः । भवभूतिस्तु भरतादिमतं अनुमोदयन् करुणविप्रलंभं करुणरसे एक अंतर्भावयति । तदेतदनेन समर्थितं तत्र “ एको रस: करुण एव निमित्तभेदात् । " ( ३ | ४१ ) इत्याद्यया तमसोक्त्या । आवर्तबुद्धदानीनां बाह्याकारभेदेऽपि यथा तेषां
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
--