SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ कुट्टनीमतम् । विशिनष्टि निरभिकांक्षितसौख्यमिति, संयोगसुखाशारहित इत्यर्थः, अनेन उभयोः भेदबीजं कविनैव प्रकाशितं इति शेयं, विप्रलंभतः विप्रलंभशंगारस्य करुणाख्यभेदतः इति विवक्षा, भिन्नं दर्शयति अनुभावाभिनयसौक्ष्म्यप्रदर्शनकौशलेन विशिष्टाभिनयैः वा उभयोः आस्वादनीययोः रसयोः पृथक्त्वं अनुभावयति, यथा विप्रलंभकरुणाभिनये सामाजिकानां करुणरसभ्रान्तिर्मा जायतां इति, इत्यर्थः। तथाहि विप्रलंभशृंगारस्य दशावस्थानां मध्ये अंतिमा दशा मरणं, तत्पूर्व नवमीं यावत् शोकसंचारिभावस्य करुण विप्रलंभस्यापि अन्याः दशाः विषयः, तावच्च अनुभावानामपि साम्यम् । अनेन दुष्करकर्मणि तस्याः अपूर्व कौशलं द्योतितं, तेन च अन्येभ्यः पात्रेभ्य: तस्या: व्यतिरेको ध्वनितः ॥ तत्र रस: तु-" रसः रस्यते स्वाद्यते इति रसः, काव्यानुशीलिनाऽभ्यासवश. विशदीभूतवर्णनीयतन्मयीभवनयोग्यसामाजिकमनोमुकुरभाव्यमानतया निर्भरानंदसं. विद्रूपः ॥” इति उत्तररामचरितटीकायां ( ३ । ४७) वीरराघवः ॥-करुणरसःशोकस्थायिभावप्रभवः मताद्यालंबनकः, तद्गुणाद्यद्दीपितः, रोदनाद्यनुभावितः, दैन्यादिसंचारितः, चित्तवैधुर्यलक्षणः रसः । विप्रलंभस्तु शंगारभेदः शोकसंचारिभावः संभोगोन्नतिकारकः; तथाहि-" शृंगारस्य द्वौ भेदौ संभोगो विप्रलंभश्च । तत्राद्यः परस्परावलोकनालिंगनाधरपानपरिचुंबनाद्यनंतत्वात् परिच्छेद्य एक एव गण्यते । ... अपरस्तु अभिलाषविरहेणूंप्रवासशापहेतुक इति पंचविधः । " इति काव्यप्रकाशे (उ० ४); (अत्र कैश्चित् शापस्थाने कलहः परिगण्यते । ) केषांचिन्मते तु " विप्रलंभाभिधानोऽयं शृंगारः स्याच्चतुर्विधः । पूर्वानुरागो, मानारव्यः, प्रवास:, करुणात्मकः ॥" (शंगारतिलके २।१) इति चतुर्विधः । वाग्भटप्रणीतकाव्यानुशासने-" स चाभिलाषमानप्रवासभेदात् त्रिधा । " (५) इति; केचित्तु-" अप्रा. प्तिर्विप्रलंभः स्याङ्नोर्जाताभिलाषयोः॥ विप्रलंभस्य भेदाः स्युरयोगो विरहस्ततः । प्रवास: शापकरुणमानसाश्चेति षण्मताः ॥ संप्राप्तेः प्रागभावो यस्तमयोग प्रचक्षते ।" इत्यादि । एषु भेदेषु केषांचितू स्वस्वमतानुसारेण तत्रतत्रान्तर्भाव: स्पष्टः एव ॥ एषु पूर्वानुराग एव अभिलाषहेतुकः अन्योन्यप्राप्तीच्छारूप: न प्रवासहेतुकः । विरहस्तु एकतरस्य अननुरागात् दैवप्रतिबंधात् गुरुलजादिवशात् वा असंयोगः; द्वितीयतृतीयमतयोः अस्य अभिलाषेऽन्तर्भावः । ईर्ष्याजन्य एव मानाख्यः । शापहेतुक एव 'करुणविप्रलंभः । इत्यपि उच्यते, (अत्र शाप: बंधनादीनां उपलक्षणम्।) स च मृताद्यालंबकात् करुणरसात् भिन्नः, यथोक्तं-" यूनोरेकतरस्मिन् गतवति लोकान्तरं पुनर्लभ्ये । विमनायते यदेकस्तदा भवेत्करुणविप्रलंभ इति ॥" विप्रलंभभेदविशेषस्य करुणस्य लक्षणं नामकरणकारणं च रसार्णवसुधाकरे (२।२१८-२१९)-" द्वयोरेकस्य मरणे पुन Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034538
Book TitleKuttanimatam
Original Sutra AuthorN/A
AuthorDamodar Guptakavi, Sukhram Sharma
PublisherDharmsukhram
Publication Year1924
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy