________________
कुट्टनीमतम् ।
सन्मणिरनेकभोगो गुरुभारसहः स्थिरात्मतास्थानम् । नरदेव चित्रमेतद्यदशेषगुणैस्त्वमाश्लिष्टः ॥ ७७९ ॥ प्रकृतिलघोर्येन कृता जघन्यवर्णस्य गौरवापत्तिः ।
जघनचपला यदायर्या स पिङ्गलस्ते कथं तुल्यः ॥ ७८० ॥ वृषध्वजः धर्मप्रधानः शिवश्च । विषादिता खेदयुक्तता, [ “विषादः सत्त्वसंक्षयः" अनुतापो वा, तद्वान् विषादी, तस्य भाव: विषादिता; पक्षे विषं अत्ति भक्षयति इति विषादी, तस्य भावः, 1 गरलभक्षकत्वं च । [ महादेवेन समुद्रमथनोत्थगरलभक्षणं कृतं तस्य कथा श्रीमद्भागवते अष्टमस्कंधे सप्तमाध्याये हरचरितचिंतामणौ तृतीये प्रकाशे शिवपुराणे सनत्कुमारसंहितायां ५१ अध्याये च द्रष्टव्या ।] । यः शत्रौ उद्यतशस्त्र: स कथं सन्नः प्रतिरुद्धः असिः [कृपाणः ] यस्य तादृशः, [ सन्नासिकः सती शोभना नासिका यस्य असौ सन्नासिकः । अत्र श्लेषालंकारः, तन्मूलकश्च विरोधालंकारः, ततश्च उपमानादुपमेयस्य आधिक्यफलकत्वेन व्यतिरेकालंकारश्च व्यंग्य: ।]॥७७८॥ सन्मणिः सतां श्रेष्ठः, फणासु सन्मणिधारी च । [अनेकभोगः बहुविधसुखभोक्ता, सहस्रफणश्च ।] गुरुभारसहः पृथिव्याः पालनं धारणं च [करोतीत्यर्थः]। स्थिरात्मता धैर्य स्थैर्य च [तस्याः स्थानं पात्रम् । समानत्वेऽपि भेदजं वैचित्र्यमाह अशेषेति । ] अशेषाः सर्वे, अशेषः शेषनागभिन्नश्च । [ शेषस्तु श्लेषद्वारा गोवर्धनपर्वतस्य व्यंग्योपमानतया इत्थं वर्णित: यादवाभ्युदयकाव्ये (६।४०)-" रत्नोपसंघटितशृंगफणासहस्रः स्फारोदितस्फटिकरश्मिविशुद्धकायः । नित्यं वहन्निजबलेन महीमहीनः पुष्यत्यसौ मधुरिपोरपि भोगयोगम् ॥" (शंगं अगं, अहीनः सर्पराज: शेषः, भोगयोगं शय्यात्वेन सुखस्य संबंधम् । ) अत्र श्लेषविरोधव्यतिरेका: अलंकारा: ] ॥ ७७९ ॥ प्रकृतिलघुः स्वरूपेण ह्रस्वः, हीनजातिश्च । जघन्यः अंतिमः [निंद्यश्व,] वर्णः अक्षरं [ ब्राह्मणादिश्च, तत्र जघन्यवर्णः] शूद्रः। तस्य गौरवं गुरुता, “पादान्तस्थं विकल्पेन" (श्रुतबोधे २ ) इति सिद्धान्तात्, पक्षे उत्कर्षः । [तथाहि कस्पचित् श्लोक:-" ऊष्मव्यपेता रहिताश्च वृद्धया संयोगहीना लघवोऽपि चान्तः । श्लोकस्य वर्णा इव विद्विषस्ते पादान्तमागम्य गुरूभवन्ति ॥” इति । ] जघनचपला नाम आर्याछंदोविशेषः, [ पूर्व ३१३ आर्याटीकायां उक्तलक्षणः, जघनेन चपला असाध्वी ] व्यभिचारिणी
७७९ सहस्थिरात्मनां (प) । स्थिरात्मना (स्तं)। देव विभ्रमे तत् यदं (प. स्तं), [लिपिभ्रमात् पाठः] (का. पूर्वार्धपाठः अशुद्धः) ७८० गौरवोत्पत्तिः (तं)। चपलाकथायां (प) तथा यां (स्तं) यदार्याः (सुभा०) चपलापि चार्या (कापा)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com