SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ दामोदरगुप्तविरचितं दुर्व्यवहारोत्पत्तिौग्ध्यप्रसरो विवेकिताप्रसहः । एकस्त्वं दोषज्ञः कृतीकृतो येन कलिकालः ॥ ७७७॥ सुगतोऽपि नाजिविमुखो, वृषध्वजोऽपि न विषादितायुक्तः। उद्यतशस्त्रोऽपि रिपौ कथमसि सन्नासिको जातः॥७७८॥ करणप्रीतिमुस्तकक्षेमहेमसु।” इति विश्वलोचनः ।] कुसृतिः कुटिलेषु शाठ्यं,पृथिव्यां प्रसरणं च। [गोत्रं कुलं, तस्य भेद: विशिष्टगुणवत्त्वात् अन्येभ्य: व्यावर्तनं, पक्षे गोत्र: पर्वतः गोत्रं वनं वा तस्य भेदः वेधनम् । पुण्यवशात् स्वस्य सुकृतबलेन केवलं विष्णुपदोद्भतः महादेवशिरःस्थः त्रिलोकीपावनः गंगाजलप्रवाहः एव तव तुलनां आरोहति, न कोऽपि अन्य: तादृशपुण्याभावात् इति भावः।।अत्र दण्डिमतानुसारेण श्लेषोपमा,तत्रापि केवलमि. ति पदेन अन्यसाम्यव्यावृत्ते: नियमोपमापि । 'पुण्यवशात्' इत्यत्र 'पूज्यदिशा' इति पाठे पूज्यत्वविषये इत्यर्थः, तच्च उपमायां साधर्म्यम् । अनया तस्य पुण्यवीरत्वं सूचितम्।] ॥ ७७६ ॥ दोषज्ञ: पंडित: दोषज्ञानेन तन्निवारणकर्ता च । यत: तादृशोऽपि कलि: [ कलियुगं] भवता धर्मस्थापनेन [ कृतीकृत:, "अभूततद्भावे च्विः”, अकृतः अपि] कृतयुगतां आपादितः।[कीदृशः कलि: इत्याह, दुर्व्यवहाराणां दुष्टक्रियाणां उत्पत्तिःजन्मदः, मौग्ध्यप्रसरः मूढतामयः, अविवेकिताप्रसह: इति च्छेदः, विवेकाक्षम: अविवेकी इत्यर्थः । कृतयुगं तु तस्य सत्त्वगुणवत्त्वात् दुःखेन राजसानां व्यवहाराणां उत्पत्तिः जन्म यत्र तादृशः, मौग्ध्यं निष्कापट्यं तस्य प्रसरः यत्र तादृशः, तथा विवेकितां प्रसहते इति नित्यानित्यादिविवेकवान् इत्यर्थः । प्रकारान्तरेण क्षेमेन्द्रेण उक्तं च-"तदा कृतयुगं लोके यदा राजा प्रजाहितः । तदा किल कलिलॊके यदा राजा प्रजाहितः ॥" (बोधिसत्त्वा०४२।१२) (प्रजाहित: प्रजाभ्यः हितः, अहितश्च)। कलिकाल: कृतीकृतः इति विरोधाभासः श्लेषोत्थापितः , कलिकृतयोः भेदेऽप्यभेदोपनिबंधनात् अतिशयोक्तिश्च, दोषज्ञ: इति विशेषणपदस्य साभिप्रायत्वाच्च परिकरालंकारः । अनया तस्य धर्मवीरत्वं ध्वनितम् ।] ॥ ७७७ ॥ सुगतः शोभनमतिः बुद्धश्च । [सुगत: बुद्धः संसारविनिर्गमात् शोभनं गतं यस्य सः, यद्वा प्रशस्तं क्लेशाद्यावरणप्रहाणं गतं यस्य सः, यद्वा प्रशस्तं सर्वधर्मनिःस्वभावतातत्त्वं गत: अधिगतः इति, पुनर्जन्ममूलरागादिबीजस्य अविद्यायाः प्रहाणात् शोभनां अपुनरावृत्तिं मोक्ष गतः इति वा ।] तस्य हि दयाशीलतया युद्धपरिहरणात् आजिविमुखत्वं, भवांस्तु अतिशूरत्वात् न युद्धपराङ्मुखः । ७७७ मोख्यं प्रसवो विवेकितावसतेः (मुख्यः प्र?) (प) मौख्यं "वसतिः (स्तं) ७७८ नापिविमुखो (प) शस्त्रेऽपि (प.स्तं)। कथमपि (१.स्तं. कापा)। संधासिको(का) Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034538
Book TitleKuttanimatam
Original Sutra AuthorN/A
AuthorDamodar Guptakavi, Sukhram Sharma
PublisherDharmsukhram
Publication Year1924
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy