SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ २१८ दामोदरगुप्तविरचितं गृहमेतदीश्वराणां कान्तारं दुष्पवेशमन्येषाम् । फूत्कृतमिदं सुभुजया, न मालती कामसत्रदानपरा' ॥ ६५९ ॥ इति चोदितगृहचेटी निगदति कटुकाक्षराण्यकृतलक्ष्या । आकर्णयतो वाचो दैवोपहतस्य मर्मभिदः ॥ ६६०॥ (महाकुलकम्।) अव्ययं जिज्ञासायां, "खलु स्याद्वाक्यभूषायां, खलु वीप्सानिषेधयोः । निश्चिते, सांत्वने, मौने, जिज्ञासादौ खलु स्मृतम् ॥” इति विश्वलोचनः । “धरात्मजः कुजो भौमो भूमिजो भूमिनंदनः । अंगारको यमश्चैव सर्वरोगापहारकः ॥” इति वराहपुराणात् , भौमांगारशब्दयोः पुनरुक्तवदाभासः शब्दालंकारः, ज्वलनः अमि: अंगारकं परदाहकं धक्ष्यति इति विरोधाभासः, वेश्यातिरस्कारैः अदग्धत्वरूपप्राकरणिकात् अर्थात् तस्य भौमाग्निनाऽपि अदाह्यत्वरूपाप्राकरणिकार्थापातात् अर्थापत्तिः अलंकारः, तेन च वेश्यातिरस्कृतीनां भौमाग्ने: अधिकं दाह्यत्वं ध्वनितं इति व्यतिरेकालंकारध्वनिः, तत्तिरस्कृतैरपि अनपगच्छतः पुरुषस्य अत्यधमत्वं च सूचितम् ॥ ६५८ ॥ उपसंहरणे स्पष्टवचनैः तं तिरस्कुरुते गृहमिति । एतत् वेश्यावेश्म, ईश्वराणां धनाद्यैश्वर्यशालिनां, गृहं वासस्थानं; अन्येषां, दरिद्राणां, दुष्प्रवेशं गाद, कान्तारं कस्य सुखस्य अन्तं यत्र ऋच्छति गच्छति इति कान्तारं अरण्यम् । इदं तव अनपगमनं, सुभुजया चारुहस्तया मालत्या, ] फूत्कृतं अनादृतं [तिरस्कृतं, इति त्वं अवगच्छ इति शेषः । यतः, मालती, सत्रं सदादानं, " अथो सत्रमाच्छादने वने । द्वादशाहादियज्ञेषु सदादाने ” इति केशवः, तच्च देयविशेषणेन विशिष्यते यथा अन्नसत्रं वस्त्रसत्रं इत्यादि, एवं कामसत्रं; कामसत्रदानं कामस्य सर्वेभ्यः सदादानं; ननु सत्रशब्देनैव दानरूपार्थप्राप्तेः किमर्थ पुन: दानपदोपादानं इति चेत् , ' यत्र पर्यायशब्दोपादानं तत्र अतिशयित एवार्थों गम्यते । इत्युक्तत्वात् तदतिशयद्योतकं तत् ततः उक्तिपोषः: वेन नहि मालती कामरूपदेयद्रव्यस्य नित्यदानरूपधर्मपरायणा इत्यर्थः, अपि तु कामस्य व्यापारिणी इति भावः ॥ ६५९ ॥ इति पूर्वोक्तप्रकारेण, कटुकाक्षराणि कर्णमनस्तोदनानि अक्षराणि परुषवचनानि दोषश्रावणानि इति भावः, चोदितगृहचेटी स्वामिन्या प्रेरिता दासी, " चेटी चिरण्टी दासी च " इति वैजयंती, अकृतलक्ष्या साक्षात् कामुकविशेष प्रति ६५९ पूत्कृत (4)। सभुजया (का.) ६६० तूदित (का)। निजचेटी (गो. का) । निगदितकटु'क्ष्याः (गो) .."क्ष्मा (का)। मर्मरुजः (गो. का) Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034538
Book TitleKuttanimatam
Original Sutra AuthorN/A
AuthorDamodar Guptakavi, Sukhram Sharma
PublisherDharmsukhram
Publication Year1924
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy