SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ कुट्टनीमतम् । यत्तु घनसारकुङ्कुमचन्दनधूपादि मुक्तकं दत्तम् । तत्संपुट के लिखितं शृणु पिण्डलिकां करोमि ते पुरतः ॥ ६०७ || एतावन्तं कालं नावसरेऽभ्यर्थिता मया त्वमसि । रिक्तं भाण्डस्थानं सांप्रतमिति याचनं क्रियते ।। ' ६०८ ॥ ८८ " " ८ ध्यते, अधिकतया इत्यर्थः, त्रिंशत् ] केदरा: तात्कालिक रूपकविशेषाः, [ रौप्यमुद्रा:, तव परिचारिकया दास्या, नीता गृहीताः; न केवलं एतावत् अपि तु अन्यानपि केदरान्, वयस्यस्य ते प्रियस्य, कृते अर्थे, " अर्थे कृते च शब्दौ द्वौ तादर्थेऽव्ययसंज्ञितौ ।” इति कोशः, मृगयते अन्वेषयति याचते इत्यर्थः; अहं तु ऋणाधिक्यात् न दास्ये इत्यभिप्राय: ॥ ८ व्ययस्य कृते ' इति पाठः पूर्वोक्तसूत्राननुगुण इति त्याज्यः, व्ययः खरच' इति भाषायाम् ॥ ६०६ ॥ “ अलंकारभक्ष्यभोज्यपेय माल्यवस्त्रगन्धद्रव्यादि व्यवहारिषु कालिकमुद्धार्यमर्थप्रतिनयनेन" (६ । ३) इति ( ' व्यवहारिषु विक्रेतृषु व्यवस्थितं, कालिकं कालेन देयं, उद्घार्य आदातव्यं इत्यर्थः, अर्थप्रतिनयनेन मूल्यप्रतिदानेन न तु द्रव्यस्यैव प्रतिनयनेन,' इति जयमंगलः । कालिकं काले देयं इत्यर्थे देयमृणे " (पा. ३ | ४ | ४७) इति कालात् ठञ् ।) कामसूत्रानुसारि आह यत्तु इति । घनसारः कर्पूरं, कुंकुमं केशरं चन्दनं प्रसिद्धं, धूपः धूपवर्तिः, आदिना माल्यवस्त्रादि, ] मुक्तकं विभागशः [पृथक्पृथक् यथा अपेक्षितं तथा, दत्तं, तत्काले मूल्यमगृहीत्वैव इति भाव:, तत् मया, संपुटके आयव्ययलेख्ये ' चोपडा' इति भाषायां, लिखितं यतः व्यवहाररीत्या आदौ लिखितं पश्चात् दत्तं शृणु श्रवणे दत्तावधाना भव, पुरतः त्वत्समक्षं, पिण्डलिकां संहति संकलनविधिना एकीकरणं 'सरवालो' इति भाषायां, करोमि, तेन मुक्ताहारमूल्यस्याप्युपरि कियदधिकं दत्तं इति ते चक्षुरुद्घटिष्यते इति भावः ॥ अथवा ] संपुटकं - लिखित्वा पिण्डलकरूपेण स्थापितं पत्रादिकं, पिण्डलिका संपुटीकृतपत्राणि ॥ ६०७ ॥ [ एतावंतं कालं तदुद्ग्रहणं ('उघराणी' इति भाषायां ) किं न कृतं तत्राह एतावंतं इति । ] अवसरे आवश्यक कार्यप्राप्तौ अपि । [ अभ्यर्थिता याचिता न । सांप्रतं इदानीं अधुना, तु, ते संपुटके भाण्डस्थानं मूलधनस्थानं यत् त्वदीयं इति धृतं, तत् रिक्तं शून्यं वर्तते इति अधुना याच्यते || ६०८ ॥ तस्मिन् १८७ 1 ६०७ पिण्डनिकां (प) ६०८ नावसरेऽत्यर्थिता ( गो . का . ) नावष्टभ्यार्थिता मया त्वमिति ( प ) नाचष्टेऽत्यर्थिता ( कापा ) । याचना ( प ) Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034538
Book TitleKuttanimatam
Original Sutra AuthorN/A
AuthorDamodar Guptakavi, Sukhram Sharma
PublisherDharmsukhram
Publication Year1924
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy